________________
[पञ्चमोऽङ्कः।
( ततः प्रविशति बिभीषणः कुन्दश्च । ) विभीषणः- ततस्ततः ? ।
कुन्दः - अनन्तरं सुग्रीवरूपधारी हनूमद्वेपेण शुकनासेनानुगम्यमानः प्रहस्तो रामस्य कृतकं सतूणीरं कोदण्डं सीताया दर्शितवान् , इदमभिहितवांश्च-व्यापादितः कुम्भकर्णेन रामः । उपस्थितोऽहं लङ्कापतिम् । त्वमपि दशग्रीवाग्रहं समर्थयेः। अनुभवतु जीवितं कुमारी लक्ष्मणः । कालज्ञता हि नाम परमो विवेकः ।
विभीषणः- ततः किमाचचार वैदेही ।
कुन्दः-नियत्रितभुजस्य सौमित्रेर्जीवितं परां त्रपामावहति । अस्मच्चिन्तायां तु कस्त्वमसि ? ( इत्यभिधाय उद्वन्धनार्थ वैदेही परिकरबन्धमकरोत् ।)
विभीषणः-अहो ! साहसातिरेकः ।। [कुन्दः - ततः किमपि कर्णे कथयित्वा वैदेही त्रिजटा स्वास्थ्यमानीतवती । बिभीषणः-सुग्रीवप्रणिधेर्वानरस्य रूपं कः कृतवान् ? । कुन्दः-वालेयकर्णः । सौमित्रिरूपं तु प्रहस्तः ।
( नेपथ्ये) हजीरस्खलदंहिरानतमुखः शक्रोऽपि सान्तःपुरः,
पौराणां स पुरः पुरा श्लथकचो बभ्राम यत्रासकृत् । आः ! कालस्य हतस्य तस्य वशतः सैषाऽपि लङ्कापुरी,
प्रत्यर्थिप्रतिरोधबद्धनिखिलद्वाराऽधुना वर्तते ॥१॥ विभीषणः-कथमयमार्यों विषीदति मारीचः ? ।
(प्रविश्य) मारीचः- कुमार! लोकः संवृतहेममण्डनविधिर्नाट्यस्य शिक्षाभुवो
निस्तालश्रुतयः, स्थितः स मधुरः सर्वत्र गीतध्वनिः । प्राकारो भटसङ्कुलः, प्रतिगृहं प्रत्यर्थियात्राकथा,
देवे सत्यपि रावणे कथमिमां पुष्णाति लङ्का दशाम् ? ॥२॥ विभीषणः-लकोपरोधमाकर्ण्य किमाचरति निशाचरपतिः ? ।
मारीचः - एप प्रमोदमेदुरान्तःकरणः कलकण्ठ - त्रिजटाभ्यां सह मैथिलीकथां प्रथयन्नस्ति । १) पौराणां पुरतः उ०। रघु० ना.६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org