Book Title: Raghuvilasa Natakam
Author(s): Ramchandra Mahakavi, 
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 54
________________ रघुविलास नाटकम् - चतुर्थोऽङ्कः । सीता - 'को वि जावरो को वि थावरो त्ति विवेगं लक्खणनारायपद्धई करिस्सदि । रावणः ( सरोपं चन्द्रहासं परामृश्य ) प्रेमावनद्वहृदयः सर्वे लङ्केश्वरः सुदति ! सोढा । सोढा न चन्द्रहासः पुनरयमुल्लण्ठवृत्तानाम् ॥ २० ॥ सीता -- ( सरोमाञ्चम् ) भयवं तिहुअणविजय सिरिनिवास चंदहास ! रक्खसकरफरिसमयिलिदाए सीदाए देहि पच्छित्तं । अवणेहि उत्तमंगं । करेहि दुक्खमोक्खं । रावणः ( स्वगतम् ) किमिदमनात्मनीनं कर्म ? । ननु विदेहराजदुहितरि कथावशेपायां रावणोऽपि समापितप्राणितः । ( प्रकाशम् ) भवतु तावत् नर्मकर्मठस्य भुजिष्य वैयात्यभाग्भिर्वाग्भिः । कुन्ददति । कपितमर्मणि किमर्थममङ्गलकर्मणि श्रद्धालुरसि ? | त्रिजटा - भट्टिणि ! देवदापहावेण पडिहदं दे जंपिदं । रावणः - कुन्तलक ! सा वीरेषु प्रथमगणना दोभृतां सा प्रकाण्डं, स्थानां विश्वत्रयविजयिनां जानकी सैव भूमिः । दास्यं यस्याः स्पृहयति जगद्युद्धकण्डूभिषग्भिदोभिर्बद्धाञ्जलिरहरहः सोऽपि लङ्काधिनाथः ॥ २१ ॥ ( सीतां प्रति ) स्मेराक्षि ! मां श्रितवती रणरङ्गमल्लमालोकयिष्यसि दृशा शबरं कदाचित् । दोर्दण्डमण्डलतृणीकृत शऋयुद्धे, क्रुद्धे पुनर्मयि न ते शबरो न चाहम् ॥ २२ ॥ ( सीता सरोषमास्ते । ) रावणः- ( विमृश्य ) कुन्तलक 1 वालेयक प्रहस्तं च समादिश । कुन्तलकः - देव ! किमादिशामि ? | ( रावणः कर्णे एवमेव । ) ( कुन्तलको निष्क्रान्तः । ) रावणः सविनयम् ) - ३७ १ ) कोऽपि यायावरः कोऽपि स्थावरः इति विवेकं लक्ष्मणनाराचपद्धतिः करिष्यति । २ ) वृत्तीनाम् उ० । ३) भगवन् त्रिभुवनविजय श्रीनिवास चन्द्रहास ! राक्षसकरस्पर्शमलिनायै सीतायै देहि प्रायश्चित्तम् । अपनय उत्तमाङ्गम् । कुरु दुःखमोक्षम् । ४ ) भट्टिनि ! देवताप्रभावेन प्रतिहतं ते जल्पितम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102