Book Title: Raghuvilasa Natakam
Author(s): Ramchandra Mahakavi, 
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 58
________________ [पञ्चमोऽङ्कः। ( ततः प्रविशति बिभीषणः कुन्दश्च । ) विभीषणः- ततस्ततः ? । कुन्दः - अनन्तरं सुग्रीवरूपधारी हनूमद्वेपेण शुकनासेनानुगम्यमानः प्रहस्तो रामस्य कृतकं सतूणीरं कोदण्डं सीताया दर्शितवान् , इदमभिहितवांश्च-व्यापादितः कुम्भकर्णेन रामः । उपस्थितोऽहं लङ्कापतिम् । त्वमपि दशग्रीवाग्रहं समर्थयेः। अनुभवतु जीवितं कुमारी लक्ष्मणः । कालज्ञता हि नाम परमो विवेकः । विभीषणः- ततः किमाचचार वैदेही । कुन्दः-नियत्रितभुजस्य सौमित्रेर्जीवितं परां त्रपामावहति । अस्मच्चिन्तायां तु कस्त्वमसि ? ( इत्यभिधाय उद्वन्धनार्थ वैदेही परिकरबन्धमकरोत् ।) विभीषणः-अहो ! साहसातिरेकः ।। [कुन्दः - ततः किमपि कर्णे कथयित्वा वैदेही त्रिजटा स्वास्थ्यमानीतवती । बिभीषणः-सुग्रीवप्रणिधेर्वानरस्य रूपं कः कृतवान् ? । कुन्दः-वालेयकर्णः । सौमित्रिरूपं तु प्रहस्तः । ( नेपथ्ये) हजीरस्खलदंहिरानतमुखः शक्रोऽपि सान्तःपुरः, पौराणां स पुरः पुरा श्लथकचो बभ्राम यत्रासकृत् । आः ! कालस्य हतस्य तस्य वशतः सैषाऽपि लङ्कापुरी, प्रत्यर्थिप्रतिरोधबद्धनिखिलद्वाराऽधुना वर्तते ॥१॥ विभीषणः-कथमयमार्यों विषीदति मारीचः ? । (प्रविश्य) मारीचः- कुमार! लोकः संवृतहेममण्डनविधिर्नाट्यस्य शिक्षाभुवो निस्तालश्रुतयः, स्थितः स मधुरः सर्वत्र गीतध्वनिः । प्राकारो भटसङ्कुलः, प्रतिगृहं प्रत्यर्थियात्राकथा, देवे सत्यपि रावणे कथमिमां पुष्णाति लङ्का दशाम् ? ॥२॥ विभीषणः-लकोपरोधमाकर्ण्य किमाचरति निशाचरपतिः ? । मारीचः - एप प्रमोदमेदुरान्तःकरणः कलकण्ठ - त्रिजटाभ्यां सह मैथिलीकथां प्रथयन्नस्ति । १) पौराणां पुरतः उ०। रघु० ना.६ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102