________________
रघुविलासनाटकम् - तृतीयोऽङ्कः । रामः - (सबैलक्ष्यम् ) 'रावणेन विराधो व्यापादितः' इति कुटिलकादवधार्य जातवेदसि प्रवेष्टुकामा चिरमस्मदन्तिकमपहाय गता ते प्रिया पत्रलेखा ।।
लक्ष्मणः -कुटिलकावेदितः खल्वयमुदन्तो व्यलीकः, नैमित्तिकोपदेशेन खरायोधनमूर्द्धनि विराधो मदभ्यर्णे स्थितवान् ।
विराधः- महापुरुषचूडामणे ! भवत्यपि यदि न्यासापहारः, खिलस्तर्हि शरण्यानां पन्थाः ।
( रामः सबीडमास्ते ।) विराधः- अपहृता खलु दशकन्धरेण प्रिया मे पत्रलेखा, अस्ति हि दुरात्मनोऽस्य पत्रलेखायां पुराऽपि गाढानुरागं चेतः ।
रामः-( लक्ष्मणं प्रति) केयमस्माकमुत्पातपरम्परा? ।
विराधः- ( सोरस्ता डम् ) हा प्रिये पत्रलेखे! कामिमां दुःस्थामवस्थामधिगतासि । ( इति मूर्छामभिनयति ।)
रामः - विराध ! कोऽयं राजन्यवंशविरोधी धैर्य विप्लवः ? । गत्वा विलोकय तापसपर्णशालासु । सम्भाव्यते तत्र ते कलत्रम् ।
(प्रविश्य सम्भ्रान्तः ) तापसः-विराध ! कुलपतिस्ते समादिशति ।
विराधः- (स्वगतम् ) साधु समयज्ञ तालजङ्घ ! साधु । (प्रकाशम् ) कौटिल्य ! किमादिशति मे कुलपतिः ।
तापसः - 'हा विराध ! हा विराध !' इति प्रलपन्ती काऽपि युवतिः केनापि क्रव्यादेनापहता । भवन्तं च भूयो भूयो दशकन्धरः पर्णशालासु गवेपितवान्-इति समादिशति ते कुलपतिः।
विराधः-- कृतकं वेपते ।
रामः-निश्चितं वत्स ! रावणः पत्रलेखामपहृतवान् । जटायुरपि पत्रलेखां त्रातुकामो रावणेन व्यापादितः।
(पुनर्विराधं प्रति) न्यासप्रवासमधुना निरवद्यधानि,
व्यालोक्य भास्करकुले प्रथमं कलङ्कम् । बीडावतो मम भवद्वनितापहाराद्,
भूम्ना मतो जनकराजसुतापहारः ।। १६ ॥ विराधः-परमार्थतः सीतापहार एवायम्, न पत्रलेखापहारः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org