________________
२६
महाकविश्रीरामचन्द्रमरिर चितं लक्ष्मणः-(समीपीभूय तारस्वरम् ) "आर्य ! ब्रूहि०" श्लो० ११ ( इत्यादि पुनः पठति।)
( पक्षी सक्रोधं लक्ष्मगाभिमुखं प्रतिमुहुः पक्ष-चञ्चु-नखप्रहारान् क्षिपति ।)
रामः- वत्स ! मास्म युद्धवीरस्यास्य सविधमधितिष्ठ । अपि नामायं क्रोधान्धचेता भवत्यपि प्रहरेत् ।
( लक्ष्मणः किञ्चिदपसर्पति । ) रामः- ( तारस्वरम् ) संरम्भं त्यज युद्धवीर !, विकटत्रोटे किमाडम्बरो ?,
दुर्दान्ताहितशिक्षयोः शिथिलय क्षेपं क्षणं पक्षयोः । नाऽऽस्ते सङ्गररङ्गनर्तनधुराधुर्यः पुरः कोऽपि ते,
पश्योन्मील्य विलोचने ननु निजौ स्निग्धाविमौ राघवौ ॥१३॥ पक्षी-(प्रहारवेदनामभिनीय मन्दस्वरम् ) अहह ! (पुनः ससंरम्भम् )
वत्से ! मा स्म रुदः प्रवीरविजयश्रद्वालुदोर्विक्रमो। त्तालव्यालकुलाहितुण्डिकनखः प्राप्तो जटायुः स्वयम् । रे क्रव्यादनिषाद ! नन्दसि कियत् त्रोटीकुठारत्रुट
त्कण्ठाभोगविसंस्थुलः स्फुरदसिन्यासैः किमेभिस्तव ? ॥१४॥ शबरः-इदं जेव पुणो पुणो पढ़ते गयणादो एशे निवडिदे । लक्ष्मणः - सर्वमेतदमुना समरसंरम्भानुबन्धेन पूर्वप्रवृत्तं मन्त्रितम् ।
रामः-निश्चितमयं सीतापहारकेण व्यापादितः । ( पुनरुच्चैःस्वरम् ) आर्य वीरावतंस ! सीतापहारकेण केनापि रक्षसा किमसि करा ........
[ लक्ष्मणः- (सबाप्पम् ) आर्य ! निस्पन्दतां वपुरुपैति यथा समन्तात्
पक्षी यथांसशिखरप्रणयानपेक्षी। आलिङ्गति क्षितिमियं च यथा शिरोधि
र्जाने तथाऽजनि गतायुरयं जटायुः ॥ १५ ॥ रामः- हा प्रिये वैदेहि ! हहा निर्निमित्तवन्धो परोपकारैकरसिक जटायो! क्कासि ? । देहि मे प्रतिवचनम् ।
विराधः -- . . . . . . . . . . . . . . ] रात् पाताललङ्कापतिरहं जातोऽस्मि । तदुपनीयतां न्यासीकृतां मदीयां प्रियां पत्रलेखाम्, येनाहं पैतृकी राज्यलक्ष्मीमनुभवामि ।
१) इदमेव पुनः पुनः पठन् गगनाद् एष निपतितः। २) अत्रान्तरे तालपत्रीयप्रतिसत्कं ५६ तम पत्रं त्रुटितं वर्तते इति तत्स्थानापन्नस्तावदंशो मया उद्धारादुद्धृतोऽस्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org