SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ रघुविलासनाटकम्-तृतीयोऽङ्कः। रामः- यथा शबराः शब्दायन्ते तथा जानेऽपरत्र सीता तिष्ठति । (प्रविश्य सम्भ्रान्तः) शबर:- भट्टा ! एदस्सि निगुंजे चिट्ठदि । रामः- ( सत्वरम् ) जानकी तिष्ठति ? । शबरः-लुहिलालित्तसव्यंगे महंते पक्खी गयणादो निवडिदे चिट्ठदि । ता निरूवेदु भवं । रामः- (सखेदम् ) यदि न सीता तदा किं निरूपितेन ? । लक्ष्मणः-तथापि विलोकयितुमुचितम् । (सर्वे परिकामन्ति ।) (ततः प्रविशति कृपाणपाटितपक्ष-गिरोधि-चरणो लक्ष्यशून्यान् पक्ष-चञ्चु नखप्रहारान मुञ्चमानः पक्षी ।) रामः-( विलोक्य ससम्भ्रमम् ) कथमयमावयोर्मित्रं जटायुः ? । वत्स ! किमिदमरिष्टान्तरम् ? । लक्ष्मणः-अरे कङ्काल ! केनायं व्यापादितः ? । शबरः-( सभयम् ) हँगे न जाणामो । पक्षी-(मन्दस्वरम् ) अहह ! । रामः-(सास्रम्) आर्य ! ब्रूहि रघूद्वहेषु किमियं वृत्तिः पराची विधेः ?, प्रत्यङ्गं तिलशः शठेन निहतः केनासि शातासिना ? । दुष्प्रेक्षस्य निदानमस्य किमभूत् पापीयसः पर्वणः ?, किं न कापि विलोक्यतेऽद्य विपिने सा ते वधूर्जानकी ? ॥ ११ ॥ पक्षी-(साक्षेपम् ) अस्त्रं शस्त्रमथो गृहाण किमपि व्यक्तं, न ते सम्प्रति त्राणं प्राणमुषा जटायुषि रुषा साटोपमास्कन्दति । मथ्नाम्येष विरोधिवीरसमरश्रद्धापुरोभागिनः, चञ्चच्चञ्चपुटाग्रमन्थचलनैस्ते स्कन्धबन्धान युधि ॥ १२ ॥ रामः- पूर्वप्रवृत्तमतिः तट (?) सम्परायसंरम्भावेशवशव्याकुलो जटायु स्मद्वचनमाकर्णयति । १) भर्तः ! एतस्मिन् निकुळे तिष्ठति । २) रुधिरालिप्तसर्वाङ्गः महान् पक्षी गगनाद् निपतितः तिष्ठति । तद् निरूपयतु भवान् । ३) वयं न जानीमः । ४) समभूत् उ० । ५) पुराभोगिनः उ० । रघु० ना०४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002799
Book TitleRaghuvilasa Natakam
Original Sutra AuthorRamchandra Mahakavi
Author
PublisherBharatiya Vidya Bhavan
Publication Year1982
Total Pages102
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy