________________
૨૮
महाकविश्रीरामचन्द्रसूरिरचित तापसः-कुमार! विराधः समुचितमभिहितवान् । परव्यसनसङ्क्रान्तिदर्पणतलानि हि रचूणां चेतांसि । विशेषतः पुनरियं पत्रलेखा रक्षोपहारत्रस्तेनामुना भवत्येव निक्षेपः कृतः।
( रामः सलजमधोमुखस्तिष्ठति । ) विराधः-कुमार ! अलं कृत्वाऽतीतशोचनम् । अतः परमपि भवानेवास्मत्प्रतिपन्थिनः प्रतिहनिष्यति ।
रामः- ( सखेदम् ) स्त्रीत्राणमात्रमपि यो न विभुर्विधातुं,
सोऽहं निहन्तुमहितान् किमलम्भविष्णुः? । क्लीबं विचिन्त्य वसुधातलपालनायां, । माताऽपि केकयसुता खल मामपास्थत् ॥ १७॥
(नेपथ्ये) भो भोः पक्कणचारिणः ! क तौ दाशरथी ? ।
तापसः-(ससम्भ्रमम् ) व्यक्तमेप रावणस्य व्याहारः, तदहमाश्रममनुसरिष्यामि । ( इति निष्क्रान्तः ।)
विराधः-(सभयम् ) कुमार ! खर-दूपण-त्रिशिरोवधप्रबुद्धाधिकक्रोधो दशकन्धरः समराय भवतो गवेपयति ।
( लक्ष्मणश्चापमारोपयति ।)
( विराधः सभयं तिरोधत्ते । )
(ततः प्रविशति सम्भ्रान्तो विद्याधरः । ) विद्याधरः -- अलमलं कोदण्डाडम्बरेण । किमपि निवेदयितुकामः समायातोऽस्मि ।
रामः- सत्वरमावेदय । विद्याधरः-- कैलाशकम्पचणरावणदर्पसर्प
संस्तम्भनप्रवणजाङ्गुलिकैकदोष्णः । श्रीवालिनः कपिपतेरनुजो जगत्सु,
विख्यातविक्रमगुणाभिजनः समस्ति ॥ १८ ॥ रामः- ततः किम् । १) प्रबलजा उ०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org