________________
रघुविलासनाटकम् - तृतीयोऽङ्कः। विद्याधरः - तस्य सुग्रीवनाम्नो निदेशेन हनुमतः समीपं गत्वा प्रतिनिवृत्तेन मया चित्राङ्गदाभिधानेन दृष्टः ।
रामः- जानकीमपहरन् कोऽपि दृष्टः ।
विद्याधरः – 'हा रामभद्र ! हा लक्ष्मण !' इति प्रलपन्तीं जानकीमपहरन् रावणो दृष्टः ।
रामः- हा प्रिये वैदेहि ! निशाचरगोचरमधिगताऽसि । शबरः-भट्टा ! 'हा लाम ! हा लक्षण' त्ति पलायो अम्हेहि वि सुणिदो।
लक्ष्मणः-निश्चितमेताभ्यां विराध-तापसाभ्यां रक्षोभ्यां भाव्यम् । कथमपरथाऽऽवयोः सन्निहितयोरिमौ रावणप्रतिभयेन तिरोधत्तः ? । रामःराज्यश्रीः कलिता तृणं, विगणितः क्लेशो न कान्तारभूः,
न ध्यातौ पितरौ, स्मृता न सुहृदो, नोत्कण्ठितं ज्ञातिषु । यत्प्रेमाब्धिविलग्नमग्नमनसा तद ब्रह्म लीढं मया,
रक्षस्तां रुदतीं जहार कठिनः सोऽहं पुनः प्राणिमि ॥ १९ ॥ विद्याधरः-जटायुरपि सीताया आनुपदिकश्चन्द्रहासन्यासे रावणेन व्यापादितः। रामःसाक्षाद् यज्ञभुजां निहत्य समरे तं रावणं प्राणतीं,
यां द्रक्ष्यामि विदेहराजतनयां सेयं न मां बाधते । प्राणान् यस्तु परोपकारकरणप्रत्याशया केवलं,
मत्कार्य विजही हहा! कथमयं दृश्यो जटायुर्मया ? ॥२०॥ लक्ष्मणः- आर्य! किममुना केतवप्रवृत्तेन कर्मणा मुहर्मुहरनुशोचितेन ? । धैर्यमवलम्ब्य जानकी पत्याहर्तुमुपायं विचिन्तयामः ।
रामः
क्लीवः स्यां शुचमादधे यदि मुहुधृत्वाऽथ धैर्य भजे, ___ क्रीडां डम्बरिणीं तदा न चरितं प्रेमानुरूपं भवेत् । दुःखावासममुं विदेहदुहितुः कृत्वा प्रवासं हहा !,
दैवेनोपनतः शठेन विषमः कोऽप्येष पन्था मम ॥ २१ ॥ विद्याधरः-महाभाग! सरोषे सौमित्रौ क्षिपति विशिखाली खरशिर
श्छिदालङ्कर्मीणां समरभुवि के नाम रिपवः ? । १) भर्तः ! 'हा राम ! हा लक्ष्मण !' इति प्रलापः अस्माभिरपि श्रुतः। २) राज्यश्रीगणिता सुणाय विदितः केशो उ० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org