SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ ३० महाकविश्रीरामचन्द्रसूरिरचितं तदद्यप्रातीनां कलय दशकण्ठव्ययकरी, क्रियामद्यश्वीनं गणय दयिताया व्यतिकरम् ॥ २२॥ रामः-( सावष्टम्भम् ) चित्राङ्गद ! निहत्य दशकन्धरं सह विपक्षरक्षःकथा प्रथाभिरधिसङ्गरं जनकजां ग्रहीष्ये ध्रुवम् । शशाक न स रक्षितुं रघुपतिः परेभ्यः प्रिया मयं तदपि सम्भवी चिरमकीर्तिकोलाहलः ॥ २३ ॥ लक्ष्मणः-(स्वगतम् ) अन्तरयामि कथान्तरेणाऽय॑स्य चेतः। (प्रकाशम् ) चित्राङ्गद ! किंनिमित्तं हनूमतः सविधमनुसृतवानसि ? । विद्याधरः-कुमार ! तारां रिरंसुः सुग्रीवरूपधारी विद्याधरः कोऽपि किष्किन्धामधिष्ठितवान् । रामः-(सकौतुकम् ) ततस्ततः ? । विद्याधरः-त : प्रभृति सत्यसुग्रीवो बहिरसत्यसुग्रीवः पुनर्मध्ये प्रतिवसति । लक्ष्मणः - ( साश्चर्यम् ) ततस्ततः ? । विद्याधरः-प्रतिवासरं प्रवरविद्यावलेनासत्य सुग्रीवेण सत्यसुग्रीवः पराजीयते । ततः साहायकार्थिना सत्यसुग्रीवेण हनूमतः समाकारणाय प्रेषितोऽस्मि । रामः-चित्राङ्गद ! कृतममुना हनूमदागमनक्लेशेन । तमहमसत्यसुग्रीवं व्यापादयिष्यामि । विद्याधरः- (सप्रमोदम् ) तर्हि यौष्माकीणमेनं प्रतिज्ञाभरमहं सचिवाय जाम्बवते निवेदयामि । दिवसोऽपि परिणतवया वर्तते । रामः-शिवास्ते पन्थानः । ( विद्याधरः प्रणम्य निष्क्रान्तः ।) रामः- ( सखेदम् ) वत्स! कलत्रमपि रक्षितुं निजमशक्तमात्मान्वय प्रसूतमभिवीक्ष्य मामहह ! जातलज्जाज्वरः । प्रकाशयितुमक्षमः क्षणमपि स्वमास्यं जने, प्रयाति चरमोदधौ पतितुमेष देवो रविः ॥ २४ ॥ तदेहि लतागृहमध्ये तिष्ठावः।। (इति निष्क्रान्ताः सर्वे ।। ॥ तृतीयोऽङ्कः ॥ १) व्ययकरम् उ०। २) गृहमनुतिष्ठामः उ० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002799
Book TitleRaghuvilasa Natakam
Original Sutra AuthorRamchandra Mahakavi
Author
PublisherBharatiya Vidya Bhavan
Publication Year1982
Total Pages102
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy