________________
चतुर्थोऽङ्कः।
(ततः प्रविशति कञ्चुकी कलकण्ठः । ) कलकण्ठः- यदि शतशस्तानि तानि छलपिच्छिलानि कर्माण्याधायाऽऽत्मा कलङ्कपङ्किलः क्रियते तथापि लङ्कापतिर्मामभिक्रुध्यति ।
कुस्वामी च हुताशश्च द्वावप्येतो सहोदरौ ।
एकः सेवकसन्तापी स्वभावः कथमन्यथा ? ॥१॥ भवतु तावत् , अस्मिन् कैतवकर्मणि शुकनाशमपि सङ्केतयामि । ( आकाशे) शुकनाश! शुकनाश।।
(प्रविश्य ) शुकनाशः- एषोऽस्मि ।
( कलकण्ठः कण एवमेव ।) शुकनाशः- यथावसरमाधास्यामि । ( विमृश्य ) आर्य ! पश्य, सीता तृणायापि रावणं नाभिमन्यते । कलकण्ठः-किमेवमभिदधासि ।।
स्वतो न कश्चन गुरुर्लघुर्वाऽपि न कश्चन ।
उचिता-ऽनुचिताचारवश्ये गौरव-लाघवे ॥२॥ शुकनाशः-किं पुनः सर्वकर्माणबुद्धिर्देवो न स्वयमेवावबुध्य दुराचारमपजहाति ?। कलकण्ठः-किमिदं पुनः पुनरचतुरजनोचितं विपञ्चयसि ? ।
अधार्मिकमलावण्यमगुणं मर्मभाषिणम् ।
यः स्वयं खं विजानाति तेन वन्ध्या वसुन्धरा ॥३॥ शुकनाशः-आर्य ! शक्रजिता पाशैनियम्य लङ्कापतेः पुरः प्रक्षिप्तेन तेन हनूमता किं कृतम् ।
कलकण्ठः - ( सावज्ञम् ) पादेन लङ्कापतेर्दशकिरीटीमभिहत्य तेन गतम् ।
शुकनाशः- अहह ! बीडाकरं पर्व । तद् गच्छाम्यहं यथादिष्टमाधातुम् । (इति निष्क्रान्तः ।)
( नेपश्ये) ऐश्वर्य वैदग्धी सौन्दर्य तरुणिमा प्रियवियोगः। तदिदममूर्तो वहिर्विक्लवयति कं न धीरमपि ? ॥४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org