Book Title: Raghuvilasa Natakam
Author(s): Ramchandra Mahakavi, 
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 43
________________ २६ महाकविश्रीरामचन्द्रमरिर चितं लक्ष्मणः-(समीपीभूय तारस्वरम् ) "आर्य ! ब्रूहि०" श्लो० ११ ( इत्यादि पुनः पठति।) ( पक्षी सक्रोधं लक्ष्मगाभिमुखं प्रतिमुहुः पक्ष-चञ्चु-नखप्रहारान् क्षिपति ।) रामः- वत्स ! मास्म युद्धवीरस्यास्य सविधमधितिष्ठ । अपि नामायं क्रोधान्धचेता भवत्यपि प्रहरेत् । ( लक्ष्मणः किञ्चिदपसर्पति । ) रामः- ( तारस्वरम् ) संरम्भं त्यज युद्धवीर !, विकटत्रोटे किमाडम्बरो ?, दुर्दान्ताहितशिक्षयोः शिथिलय क्षेपं क्षणं पक्षयोः । नाऽऽस्ते सङ्गररङ्गनर्तनधुराधुर्यः पुरः कोऽपि ते, पश्योन्मील्य विलोचने ननु निजौ स्निग्धाविमौ राघवौ ॥१३॥ पक्षी-(प्रहारवेदनामभिनीय मन्दस्वरम् ) अहह ! (पुनः ससंरम्भम् ) वत्से ! मा स्म रुदः प्रवीरविजयश्रद्वालुदोर्विक्रमो। त्तालव्यालकुलाहितुण्डिकनखः प्राप्तो जटायुः स्वयम् । रे क्रव्यादनिषाद ! नन्दसि कियत् त्रोटीकुठारत्रुट त्कण्ठाभोगविसंस्थुलः स्फुरदसिन्यासैः किमेभिस्तव ? ॥१४॥ शबरः-इदं जेव पुणो पुणो पढ़ते गयणादो एशे निवडिदे । लक्ष्मणः - सर्वमेतदमुना समरसंरम्भानुबन्धेन पूर्वप्रवृत्तं मन्त्रितम् । रामः-निश्चितमयं सीतापहारकेण व्यापादितः । ( पुनरुच्चैःस्वरम् ) आर्य वीरावतंस ! सीतापहारकेण केनापि रक्षसा किमसि करा ........ [ लक्ष्मणः- (सबाप्पम् ) आर्य ! निस्पन्दतां वपुरुपैति यथा समन्तात् पक्षी यथांसशिखरप्रणयानपेक्षी। आलिङ्गति क्षितिमियं च यथा शिरोधि र्जाने तथाऽजनि गतायुरयं जटायुः ॥ १५ ॥ रामः- हा प्रिये वैदेहि ! हहा निर्निमित्तवन्धो परोपकारैकरसिक जटायो! क्कासि ? । देहि मे प्रतिवचनम् । विराधः -- . . . . . . . . . . . . . . ] रात् पाताललङ्कापतिरहं जातोऽस्मि । तदुपनीयतां न्यासीकृतां मदीयां प्रियां पत्रलेखाम्, येनाहं पैतृकी राज्यलक्ष्मीमनुभवामि । १) इदमेव पुनः पुनः पठन् गगनाद् एष निपतितः। २) अत्रान्तरे तालपत्रीयप्रतिसत्कं ५६ तम पत्रं त्रुटितं वर्तते इति तत्स्थानापन्नस्तावदंशो मया उद्धारादुद्धृतोऽस्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102