Book Title: Raghuvilasa Natakam
Author(s): Ramchandra Mahakavi,
Publisher: Bharatiya Vidya Bhavan
View full book text
________________
३४
महाकविश्रीरामचन्द्रसूरिरचित कुरुबक! कुतस्ताहग भूयस्तव स्तनताडनं ?, __कथयसि कथां कस्य प्रेम्णा पुरः सखि सारिके !। बकुल ! मुकुलापीडं कस्ते करिष्यति सम्प्रति ?,
स्थितमिव तव क्रीडाबर्हिन् ! शिखण्ड विमार्जनम् ॥ ७॥ लक्ष्मणः- ( सबाप्पं आत्मगतम् ) कथमार्यश्चेतनादुस्थामवस्थामुद्वहति ? । (प्रकाशम् ) आर्य! स्थानान्तरे क्वचिदार्यां विलोकयामः ।
रामः- ( लक्ष्मणेन दत्तहस्तावलम्बः परिकामति । पुनः स्थित्वा ) वत्स ! कोऽयं वनोद्देशः ?
लक्ष्मणः - आर्य ! लतागृहाभ्यर्णसर परिसरावनीरुहराजिरियम् । रामःरक्ताशोक! तमाल! चम्पकलते ! हिन्ताल ! तालाऽऽश्रमे
युष्माकं वयमास्महे चिरमतः कस्मार्दुपेक्ष्यामहे ? । जाड्यं मुञ्चत, दक्षिणाः स्त, करुणां दीनेषु धत्त क्षणं,
भिक्षां प्राणमयीं प्रयच्छत, बत! ब्रूत कसा जानकी?॥८॥ अपि चअनुपकृतयः कामं तृष्णीं द्रुमा दधताममी,
उपकृतवती देवी किश्चित् पुनस्तव केसर !। त्वमथ कथयोदन्तं तस्याः क सा वसतीह किं __ कचिदपि वनोद्देशे? केनाप्यथो हठतो हृता? ॥ ९॥
लक्ष्मणः-आर्य ! विलोकितोऽयं सर्वतो वनोद्देशः परमार्या न दृश्यते । तदन्यतः क्वापि मृगयामहे ।
रामः-( दत्तहस्तावलम्ब एव परिक्रम्य )
श्लथय सपदि दित्सां वत्स ! हस्तावलम्बे, ___ समुपदिश मनाग मे वर्त्म भूत्वा पुरोगः। जनकपतिसुतास्याम्भोरुहध्यानरोहा
जलतरलिततारं नैतदोजखि चक्षुः ।। १०॥ लक्ष्मणः-कोऽयं सत्त्वैकनिधेरार्यस्य धैर्यविप्लवः ? ।
(नेपथ्ये सकलकलम् ) अले कंकालया! कंकालया ! एदं अच्छलियं लाम-लक्खणाणं कडय कहेहि ।
१) पुरा शुक ! सारिके ! उ० । २) °दुपेक्षा मयि उ० । ३) स्थ उ०। ४) अरे ककालक! कङ्कालक! एतद् आश्वयं राम-लक्ष्मणयोः गत्वा कथय ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/41c581cbc1a7809c810fa30b04d017a3e67f726ec2ed57ec361a0632ae9ce6cb.jpg)
Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102