Book Title: Raghuvilasa Natakam
Author(s): Ramchandra Mahakavi, 
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 40
________________ रघुविलासनाटकम् - तृतीयोऽङ्कः । ( पुनरवलोक्य साशङ्कम् ) वृक्षे वृक्षे करटपटलान्युच्चकैर्व्याहरन्ते, धावन्त्येते ककुभि ककुभि क्षुत्करालाः शृगालाः । भूयो भूयः क्लमयतितमामस्रमिस्रः समीर:, स्तं स्तं विपिनमधुना वत्स ! कस्मादकस्मात् ? ॥ २ ॥ लक्ष्मणः - (साम्रम् ) आर्य ! यथा त्रस्तः क्रीडामृगशिशुरयं धावति जवाद्, यथा लीलाबह वियदभिमुखं रौति चकितः । यथा तृष्णीमास्ते तरलनयनः पञ्जरशुकः, तथा जाने सीताविरहितमिदं काननपदम् ॥ ३ ॥ राम: - ( सास्रम् ) हा प्रिये वैदेहि ! व मामेकाकिनं गहने वने सन्त्यज्य प्रयाताऽसि ? | ( क्षणं मूच्छीमभिनीय कृतकधैर्यम् ) वत्स ! लतागृहाभ्यन्तरमवलोकय । क्रव्यादप्रतिभयेन तिरोहिताऽस्ति देवी ? | लक्ष्मणः – ( मध्यमवलोक्य सवाप्पम् ) आर्य ! मध्येsपि नास्ति । ( रामः सहसा मूर्च्छति । ) लक्ष्मणः - (सबाप्पम् ) प्रवासितस्य पुत्रस्य शोकशङ्कवशां दशाम् । पश्य पश्याम्य कैकेयि ! मोदते येन ते मनः ॥ ४ ॥ राम: - ( चेतनामास्थाय ) त्वमेव पत्तिर्मित्रं वा मन्त्री वा बान्धवोऽथवा । तदेहि देहि वैदेहि ! मह्यं दुस्थाय दर्शनम् ॥ ५ ॥ ( पुनः संवैकल्यम् ) अरण्ये मां त्यक्त्वा हरिण ! हरिणाक्षी क नु गता ?, पराभूतो दृष्ट्या कथयसि न चेन्मास्म कथय । अरे क्रीडाकीर ! त्वमपि वहसे कामपि रुषं, यदेवं तृष्णीका मनुसरसि वाचंयम इव ॥ ६ ॥ लक्ष्मणः- (सास्रम् ) आर्य ! किमेतौ तपखिनौ जानीतः ? । तत् कोऽयं व्यामोह : ? । रामः - (समन्ततोऽवलोक्य ) २३ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102