________________
रघुविलासनाटकम् - तृतीयोऽङ्कः । ( पुनरवलोक्य साशङ्कम् )
वृक्षे वृक्षे करटपटलान्युच्चकैर्व्याहरन्ते,
धावन्त्येते ककुभि ककुभि क्षुत्करालाः शृगालाः । भूयो भूयः क्लमयतितमामस्रमिस्रः समीर:,
स्तं स्तं विपिनमधुना वत्स ! कस्मादकस्मात् ? ॥ २ ॥ लक्ष्मणः - (साम्रम् ) आर्य !
यथा त्रस्तः क्रीडामृगशिशुरयं धावति जवाद्, यथा लीलाबह वियदभिमुखं रौति चकितः । यथा तृष्णीमास्ते तरलनयनः पञ्जरशुकः, तथा जाने सीताविरहितमिदं काननपदम् ॥ ३ ॥
राम: - ( सास्रम् ) हा प्रिये वैदेहि ! व मामेकाकिनं गहने वने सन्त्यज्य प्रयाताऽसि ? | ( क्षणं मूच्छीमभिनीय कृतकधैर्यम् ) वत्स ! लतागृहाभ्यन्तरमवलोकय । क्रव्यादप्रतिभयेन तिरोहिताऽस्ति देवी ? |
लक्ष्मणः – ( मध्यमवलोक्य सवाप्पम् ) आर्य ! मध्येsपि नास्ति । ( रामः सहसा मूर्च्छति । )
लक्ष्मणः - (सबाप्पम् )
प्रवासितस्य पुत्रस्य शोकशङ्कवशां दशाम् । पश्य पश्याम्य कैकेयि ! मोदते येन ते मनः ॥ ४ ॥ राम: - ( चेतनामास्थाय )
त्वमेव पत्तिर्मित्रं वा मन्त्री वा बान्धवोऽथवा । तदेहि देहि वैदेहि ! मह्यं दुस्थाय दर्शनम् ॥ ५ ॥ ( पुनः संवैकल्यम् )
अरण्ये मां त्यक्त्वा हरिण ! हरिणाक्षी क नु गता ?, पराभूतो दृष्ट्या कथयसि न चेन्मास्म कथय । अरे क्रीडाकीर ! त्वमपि वहसे कामपि रुषं, यदेवं तृष्णीका मनुसरसि वाचंयम इव ॥ ६ ॥ लक्ष्मणः- (सास्रम् ) आर्य ! किमेतौ तपखिनौ जानीतः ? । तत् कोऽयं
व्यामोह : ? ।
रामः - (समन्ततोऽवलोक्य )
२३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org