SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ [तृतीयोऽङ्कः] (ततः प्रविशति वैनतेयः ।) वैनतेयः - समादिष्टोऽस्मि दशग्रीवेण, यथा-तत् किमपि कैतवं प्रयोजय, येनास्मदपहतां जानकी रामहतको नावधारयति । ( विलोक्य ससम्भ्रमम् ) किं पुनरयं खरानुचरस्तालजङ्घः पलायमानोऽभ्युपैति ? । (ततः प्रविशति तालजङ्घः ।) वैनतेयः - अये तालजङ्घ ! कथं कान्दिशीको लक्ष्यसे ? । तालजङ्घः- (सोरस्ताङम् ) किमावेदयामि मन्दभाग्यः ? चतुर्दशभिर्विद्याधरसहस्रैः सममेकाकिना लक्ष्मणेन दुरात्मना कृतान्तातिथयः कृताः खर-दपण-त्रिशिरसः। वैनतेयः- अहह ! रक्षोराजस्य प्रतापक्षयः । तालजङ्घः- पाताललङ्का च तत्कालोपस्थितस्य विराधस्य लक्ष्मणेन प्रसादीकृता । वैनतेयः- व्यक्तमियं चन्द्रणखा पितृ-श्वशुरकुलस्य धूमकेतुरुदगात् । ( पुनः कर्णे किमपि कथयित्वा) व पुनस्तौ राघवौ सम्प्रति ? । तालजङ्घः-एतावनुपदमुपसर्पतः । वैनतेयः-(सभयम् ) अहमपि तर्हि तिरोदधामीति । (उभौ निष्क्रान्तौ ।) । ( ततः प्रविशति रामो लक्ष्मणश्च । ) लक्ष्मणः-(साशङ्कम् ) कथमार्यः समारोपितचापः सम्भ्रान्तः समायातवान् । रामः-भवतः सिंहनादेन परपराभवं सम्भाव्य समायातोऽस्मि । लक्ष्मणः -क्क मे परपराभवः ? कीदृशश्च सिंहध्वनिः ? । नियतं वञ्चितः केनाप्यायः । तत् कथय तावदार्या कथं वर्तते ? । रामः- इदानीमेव लतागृहे वनदेवताशरणं कृत्वा समायातोऽस्मि । लक्ष्मणः-(साक्षेपम्) आर्य ! सरलोऽसि, यदि वनदेवताः क्वापि भवन्ति तदा सिंहनादमप्यलीकं निवारयन्ति । तदेहि तावदायाँ लतागृहे निरूपयामः । ( ससम्भ्रममुपसर्पतः ।) रामः-(वामाक्षिस्फुरणमभिनीय सावष्टम्भम् ) त्यक्तास्ताः कुलभूमयः, परिहृताः शोकाकुला ज्ञातयः, प्रारब्धा वनचारिणां समुचिता वृत्तिस्त्रपाकारिणी । एतस्मिन् विहितेऽपि दुष्करविधौ वेधा विधास्यत्ययं, यत् किञ्चित् पुरतः प्रपत्तुमखिलं रामस्तदप्युत्सुकः ॥१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002799
Book TitleRaghuvilasa Natakam
Original Sutra AuthorRamchandra Mahakavi
Author
PublisherBharatiya Vidya Bhavan
Publication Year1982
Total Pages102
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy