Book Title: Raghuvilasa Natakam
Author(s): Ramchandra Mahakavi, 
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 27
________________ [द्वितीयोऽङ्कः।] ( ततः प्रविशति तापसः । ) तापसः-(सर्वतोऽवलोक्य ) तदिदं शम्बूककण्ठकन्दच्छिदाप्रसूतप्रभूतक्रुधश्चन्द्रणखाया लीलायितम् , यदिदमितस्ततः परिभ्रमद्भिः क्षपाचरैः सर्वतः समाकुलमरण्यम् । अहमपि समिधः समादाय पर्णशालायां त्वरिततरमुपसरामि । प्रत्यर्थिनो हि दरात्मानो दशकन्धरगृह्याः फलमूलकन्दाशिनामपि तपम्बि नाम् । ( पुरोऽवलोक्य सभयम ) कथमिदं निशाचरद्वन्द्वमितः परापतति ? । ( सम्यगवलोक्य सप्रमोदम् ) न हि न हि, निपादद्वन्द्रम् । (ततः प्रविशति वैनतेयः प्रभञ्जनश्च । ) वैनतेयः- ततस्ततः ? । ....... . . . . 'शम्बूकनामा तनयः सूर्यहासाभिधानं देवताधिष्ठितं मण्डलायं वंशजालिकामध्यनिषण्णः प्रतिदिनमाराधयति स्म । परिभ्रमता च सौमित्रिणा सलीलं सूर्यहासमादाय वंशजालिकां छिन्दता शम्बूकस्य शिरः पातितम् । प्रभञ्जन: - तनयगवेषणाय समागतायाश्चन्द्रणखायाः शीलविध्वंसो राघवाभ्यां कृत इति च किंवदन्ती । तापसः -( सरोषम् ) अलीकोऽयं प्रवादः । स्वयं पुनश्चन्द्रगखा वृषस्यन्ती रामलक्ष्मणौ प्रार्थितवती । राम-लक्ष्मणाभ्यामवगणिता च साटोपमाकोशन्ती नभस्तलमुत्पतिता । ( इत्यभिधाय त्वरिततरं निष्क्रान्तः ।) वैनतेयः- ( सखेदम् ) प्रभञ्जन : चन्द्रणखाप्रसूतोऽयं कलिः क्षपाचरकुलं समूलमुन्मूलयिष्यति । (नेपथ्ये) सद्यो रक्षत हस्तशीकरकणान् दानाविलान् दिग्गजाः !, पादान् संहर भास्कराऽऽशु, भवत च्छत्रं घनाः ! सर्वतः। मार्ग त्याजय निर्विलम्बमरुण ! व्याकृष्य वल्गां हयान , देवो देवपतिस्मयव्ययपटुर्नन्वेति लङ्कापतिः ॥ १ ॥ वैनतेयः-(विलोक्य ) कथं प्राप्त एव देवो दशकन्धरः ? । (ततः प्रविशति पुप्पकाधिरूढो रावणः प्रहस्तप्रभृतिकश्च परिवारः ।। रावणः-- कैलासोद्धरणोद्भवस्य बलभिद्दपच्छिदाजन्मन श्चक्राप्तिप्रतिबोधितस्य च परानन्दामृतस्यन्दिनः। १) अत्रान्तरे तालपत्रीयप्रतिसत्कं १९ तम पत्रं नष्टं वर्तते । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102