Book Title: Raghuvilasa Natakam
Author(s): Ramchandra Mahakavi, 
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 33
________________ महाकविश्रीरामचन्द्रसूरिरचितं ( प्रविश्य सम्भ्रान्तः ) तापसः - विराध ! त्वां कुलपतिरादिशति । रावणः - (स्वगतम् ) साधु रे समयज्ञ प्रभञ्जन | साधु । (प्रकाशम ) बलीमुख ! किमादिशति कुलपतिः ? | ( तपसो रावणस्य कर्णे एवमेव । ) १६ रावणः-( ससम्भ्रमम् ) एप समागत एवाहमिति निवेदय कुलपतिपादेभ्यः । ( तापसो निष्क्रान्तः । ) रामः - किमाह कुलपतिः ? | रावणः - न किञ्चित् । लक्ष्मणः - तथापि किम् ? | -- - रावणः - प्राप्ता रावण - खर दूषण - त्रिशिरसो दण्डकाम् ततस्त्वं पर्णशालासु त्वरितमागत्य निलीयस्वेत्यादिशति कुलपतिः । ( नेपथ्ये ) नीरन्धं परितश्चमूकर टिभिस्त्रिर्वेष्ट्यतां दण्डका, शम्बुप्राणहरस्तरुं तरुमभि म्लेच्छः समालोक्यताम् । जीवग्राहमरे ! वनेचरपशुग्रयो भवद्भिः स्वयं, सेनान्यस्तदिदं समादिशति वः पाताललङ्कापतिः ॥ १९ ॥ रावणः - ( समयं दिशोऽवलोक्य रामं प्रति ) आर्य ! यदेव चिन्त्यमानमस्ति तदेवाऽऽपतितम् । प्रहस्तः - ( रावणं प्रति ) अजउत्त ! उत्थेहि । आसमपयं गच्छम्ह । सीता - अजउत्त ! परित्तायहि लक्खणं कुमारं । लक्ष्मणः – ( साहङ्कारम् ) आर्ये ! कोऽयं रघुवधूनामनुचितः प्रतिभयाडम्बरः ? । रामः - ( सावहेलम् ) वत्स ! त्वमत्रैव देव्याः सविधमाराधय । अहं पुनरेतं निशाचरकोलाहलं गत्वा निवारयामि । लक्ष्मणः - आर्य ! मत्कृतोऽयं निशाचर पशूनामुपप्लवः, तदयं मयैव निवारणीयः । सीता - ( सकम्पम् ) अज्जउत्त ! मायाविणो रक्खसा, बालो य एस लक्खणणे, ता तुमं स्येव गच्छ । लक्ष्मणः - ( सरोपम ) आर्ये ! किमिदमरघुकुलोचितं पुनः पुनरभिधीयते ? | * उ० । २ ) आर्यपुत्र ! उत्तिष्ट, आश्रमपदं गच्छामः । ३ आर्यपुत्र ! परित्रायस्व लक्ष्मणं कुमारम् । * ) आर्यपुत्र ! मायाविनो राक्षसा: बालश्च एष लक्ष्मणः, तत् त्वमेव गच्छ । १) मयं बने Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102