Book Title: Raghuvilasa Natakam
Author(s): Ramchandra Mahakavi,
Publisher: Bharatiya Vidya Bhavan
View full book text
________________
रघुविलासनाटकम् - द्वितीयोऽङ्कः । रामः- वत्स ! त्वमेव विजयस्त्र, किन्तु यदि ते पराभवः कोऽपि भवति तदा सिंहनादेन मां ज्ञापयेथाः।
लक्ष्मणः- यदादिशत्यार्यः । ( इत्यभिधाय निष्क्रान्तः ।)
रावणः - इयं मे सधर्मचारिणी पत्रलेखा जानकीसविधमाराधयतु । रक्षःप्रतिभये चाऽस्याः कुमारः शरणम् । अहं पुनः कुमारलक्ष्मणसम्परायमालोकयितुं यास्यामि । (इत्यभिधाय प्रहस्तस्य कर्णे किमपि कथयन् पुष्पकमधिरुह्य च वैनतेयं प्रति)
आकर्षन्ती वचनरचनावागुराभिः प्रसह्य,
प्राणान् धैर्य भुजवन(? बल)मदं स्थाम सत्त्वं श्रियं च । हरभ्यां शल्यं हृदि निदधती पाटलापाटलाभ्यां,
वैदेही नः कथय किमियं कालरात्रिः ? प्रिया वा ? ॥ २० ॥ वैनतेयः- (स्वगतम् ) किमिदममङ्गलाभिधानम् ? ।
(प्रकाशम् ) वनेचरस्य वैदेही प्रिया, देवस्य पुनः कालरात्रिः । ( पुनः सकम्पम् ) वनेचरस्य वैदेही कालरात्रिः, देवस्य पुनः प्रिया ।
रावणः-(अनाकर्णितकेन) कथमयं दुरात्मा वनेचरः स्थानादस्मादपगच्छेत् ? । भवतु तावत् । अवलोकिनी विद्यां स्मरामि । (ध्यानं नाटयति ।)
प्रहस्तः-अज्जे ! वेवदि मे हिढयं, जइ कहं पि मे अजउत्तो रावणदिट्टिगोयरं गच्छेजा विरूपं भवे ।
सीता-वत्से! मा भायहि, वणदेवयाओ दे भत्तारं रक्खिस्संति । रामः- वत्से ! कोऽयमनिष्टवितर्कः ? । उत्पातपावकतरङ्गपिशङ्गधारा
निर्दग्धदुर्द्धरविरोधिशिरोधिवन्धः। हासं दधद् दिविषदां दशकन्धरस्य,
कण्ठाटवीं खलु लविष्यति सूर्यहासः ॥ २१ ॥ रावणः - (समाकर्ण्य सरोपोपशमम्) दोर्विक्रमेण दशकन्धरमाक्षिपन्तं,
रे रे भुजः ! सहत किं नरकीटमेनम् ? । ज्ञातं विदेहतनयापरिरम्भकेलि
प्रत्याशया किमपि साम्प्रतमाकुलाः स्थः ॥ २२ ॥
१) भार्ये ! वेपति मे हृदयम् , यदि कथमपि मम आर्यपुत्रः रावणदृष्टिगोचरं गच्छेद् विरूपं भवेत् । २) चस्से ! मा भाहि, वनदेवताः ते भारं रक्षिष्यन्ति ।
रघु० ना. ३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102