Book Title: Raghuvilasa Natakam
Author(s): Ramchandra Mahakavi, 
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 32
________________ रघुविलासनाटकम् -द्वितीयोऽङ्कः । सीतास्वयङ्ग्रहमहैः सुभगम्भविष्णु जिष्णुर्जगत्रयममुष्य वनेचरस्य । प्रत्यर्थिपार्थिवयशःशशलक्ष्मराहु र्बाहुर्धनुर्ननु वहन् किमु नाऽऽदधीत ? ॥ १४ ॥ ___ वैनतेयः- (रामं प्रति) अजितेन्द्रियः खलु दुरात्मा रावणः । न क्षाम्यति कलितसौभाग्यसाराणां परदाराणाम् । तदियमार्या वैदेही क्वचिदपि गोपयितुमुचिता । लक्ष्मणः - अजितेन्द्रियः खलु दुरात्मा सूर्यहासः । न क्षाम्यति पापीयतां पुंसाम् । तदियमार्या वैदेही कचिदपि न गोपयितुमुचिता । वैनतेयःयस्मात् त्रस्तुर्दिवमभिपतन् गोत्रहा नेत्रवल्ली, ग्रीवाभङ्गव्यसनविगमात तुष्टुवे पृष्ठभाजः । बिभ्राणस्य त्रिजगदति भीमभ्यमित्रीणदीक्षा, रक्षोभतुर्विमृश समरे तस्य का सांयुगीनः ? ॥ १५ ॥ रावणःविघटितहरिदाम्भोधितीरः स वीरः, क्षणमपि हृदि कर्तुं साम्प्रतं साम्प्रतं वः। दशमुख इति चित्रं भर्तृवैरीति रोषं, स्मरवपुरिति कामं यः सुरीणां चकार ॥ १६ ॥ किमपरमुच्यते ? - पविकिणगणदृप्यद्वक्षसो रक्षसो वः, प्रतिभयमभयानामप्यहं तर्कयामि । जानेरजनिविजिष्णो रोदसी यस्य साई, हरियहरिणाक्षीपत्रवल्लीव्ययेन ॥ १७ ॥ रामः- ( वैनतेयं प्रति ) जम्भारिं दशकन्धरो दशमुखीवरूप्यवीक्षागल दम्भोलिस्मरणं रणे यदजयत् किं नाम तत् कौतुकम् ? । आश्चर्यानपहार्यधैर्यमनसः सङ्ग्रामशिक्षाचण स्थामानः पुनरुन्मदिष्णुहृदयैरिक्ष्वाको दुर्जयाः ॥ १८ ॥ रावणः- ( सरोषमात्मगतम् ) अहह ! दुरात्मा शम्बरशिशुः पराक्रमसर्वस्वमन्यथा करोति । १) °वल्लीप्रीवा' उ०। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102