________________
रघुविलासनाटकम् -द्वितीयोऽङ्कः । सीतास्वयङ्ग्रहमहैः सुभगम्भविष्णु
जिष्णुर्जगत्रयममुष्य वनेचरस्य । प्रत्यर्थिपार्थिवयशःशशलक्ष्मराहु
र्बाहुर्धनुर्ननु वहन् किमु नाऽऽदधीत ? ॥ १४ ॥ ___ वैनतेयः- (रामं प्रति) अजितेन्द्रियः खलु दुरात्मा रावणः । न क्षाम्यति कलितसौभाग्यसाराणां परदाराणाम् । तदियमार्या वैदेही क्वचिदपि गोपयितुमुचिता ।
लक्ष्मणः - अजितेन्द्रियः खलु दुरात्मा सूर्यहासः । न क्षाम्यति पापीयतां पुंसाम् । तदियमार्या वैदेही कचिदपि न गोपयितुमुचिता । वैनतेयःयस्मात् त्रस्तुर्दिवमभिपतन् गोत्रहा नेत्रवल्ली,
ग्रीवाभङ्गव्यसनविगमात तुष्टुवे पृष्ठभाजः । बिभ्राणस्य त्रिजगदति भीमभ्यमित्रीणदीक्षा,
रक्षोभतुर्विमृश समरे तस्य का सांयुगीनः ? ॥ १५ ॥ रावणःविघटितहरिदाम्भोधितीरः स वीरः,
क्षणमपि हृदि कर्तुं साम्प्रतं साम्प्रतं वः। दशमुख इति चित्रं भर्तृवैरीति रोषं,
स्मरवपुरिति कामं यः सुरीणां चकार ॥ १६ ॥ किमपरमुच्यते ? - पविकिणगणदृप्यद्वक्षसो रक्षसो वः,
प्रतिभयमभयानामप्यहं तर्कयामि । जानेरजनिविजिष्णो रोदसी यस्य साई,
हरियहरिणाक्षीपत्रवल्लीव्ययेन ॥ १७ ॥ रामः- ( वैनतेयं प्रति ) जम्भारिं दशकन्धरो दशमुखीवरूप्यवीक्षागल
दम्भोलिस्मरणं रणे यदजयत् किं नाम तत् कौतुकम् ? । आश्चर्यानपहार्यधैर्यमनसः सङ्ग्रामशिक्षाचण
स्थामानः पुनरुन्मदिष्णुहृदयैरिक्ष्वाको दुर्जयाः ॥ १८ ॥ रावणः- ( सरोषमात्मगतम् ) अहह ! दुरात्मा शम्बरशिशुः पराक्रमसर्वस्वमन्यथा करोति ।
१) °वल्लीप्रीवा' उ०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org