________________
महाकविश्रीरामचन्द्रसूरिरचितं
( प्रविश्य सम्भ्रान्तः )
तापसः - विराध ! त्वां कुलपतिरादिशति ।
रावणः - (स्वगतम् ) साधु रे समयज्ञ प्रभञ्जन | साधु । (प्रकाशम ) बलीमुख ! किमादिशति कुलपतिः ? |
( तपसो रावणस्य कर्णे एवमेव । )
१६
रावणः-( ससम्भ्रमम् ) एप समागत एवाहमिति निवेदय कुलपतिपादेभ्यः । ( तापसो निष्क्रान्तः । )
रामः - किमाह कुलपतिः ? |
रावणः
- न किञ्चित् ।
लक्ष्मणः - तथापि किम् ? |
--
-
रावणः - प्राप्ता रावण - खर दूषण - त्रिशिरसो दण्डकाम् ततस्त्वं पर्णशालासु त्वरितमागत्य निलीयस्वेत्यादिशति कुलपतिः ।
( नेपथ्ये ) नीरन्धं परितश्चमूकर टिभिस्त्रिर्वेष्ट्यतां दण्डका,
शम्बुप्राणहरस्तरुं तरुमभि म्लेच्छः समालोक्यताम् । जीवग्राहमरे ! वनेचरपशुग्रयो भवद्भिः स्वयं,
सेनान्यस्तदिदं समादिशति वः पाताललङ्कापतिः ॥ १९ ॥ रावणः - ( समयं दिशोऽवलोक्य रामं प्रति ) आर्य ! यदेव चिन्त्यमानमस्ति तदेवाऽऽपतितम् ।
प्रहस्तः - ( रावणं प्रति ) अजउत्त ! उत्थेहि । आसमपयं गच्छम्ह । सीता - अजउत्त ! परित्तायहि लक्खणं कुमारं ।
लक्ष्मणः – ( साहङ्कारम् ) आर्ये ! कोऽयं रघुवधूनामनुचितः प्रतिभयाडम्बरः ? । रामः - ( सावहेलम् ) वत्स ! त्वमत्रैव देव्याः सविधमाराधय । अहं पुनरेतं निशाचरकोलाहलं गत्वा निवारयामि ।
लक्ष्मणः - आर्य ! मत्कृतोऽयं निशाचर पशूनामुपप्लवः, तदयं मयैव निवारणीयः । सीता - ( सकम्पम् ) अज्जउत्त ! मायाविणो रक्खसा, बालो य एस लक्खणणे, ता तुमं स्येव गच्छ ।
लक्ष्मणः - ( सरोपम ) आर्ये ! किमिदमरघुकुलोचितं पुनः पुनरभिधीयते ? |
*
उ० । २ ) आर्यपुत्र ! उत्तिष्ट, आश्रमपदं गच्छामः । ३ आर्यपुत्र ! परित्रायस्व लक्ष्मणं कुमारम् । * ) आर्यपुत्र ! मायाविनो राक्षसा: बालश्च एष लक्ष्मणः, तत् त्वमेव गच्छ ।
१) मयं बने
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org