SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ रघुविलासनाटकम् - द्वितीयोऽङ्कः । रामः- वत्स ! त्वमेव विजयस्त्र, किन्तु यदि ते पराभवः कोऽपि भवति तदा सिंहनादेन मां ज्ञापयेथाः। लक्ष्मणः- यदादिशत्यार्यः । ( इत्यभिधाय निष्क्रान्तः ।) रावणः - इयं मे सधर्मचारिणी पत्रलेखा जानकीसविधमाराधयतु । रक्षःप्रतिभये चाऽस्याः कुमारः शरणम् । अहं पुनः कुमारलक्ष्मणसम्परायमालोकयितुं यास्यामि । (इत्यभिधाय प्रहस्तस्य कर्णे किमपि कथयन् पुष्पकमधिरुह्य च वैनतेयं प्रति) आकर्षन्ती वचनरचनावागुराभिः प्रसह्य, प्राणान् धैर्य भुजवन(? बल)मदं स्थाम सत्त्वं श्रियं च । हरभ्यां शल्यं हृदि निदधती पाटलापाटलाभ्यां, वैदेही नः कथय किमियं कालरात्रिः ? प्रिया वा ? ॥ २० ॥ वैनतेयः- (स्वगतम् ) किमिदममङ्गलाभिधानम् ? । (प्रकाशम् ) वनेचरस्य वैदेही प्रिया, देवस्य पुनः कालरात्रिः । ( पुनः सकम्पम् ) वनेचरस्य वैदेही कालरात्रिः, देवस्य पुनः प्रिया । रावणः-(अनाकर्णितकेन) कथमयं दुरात्मा वनेचरः स्थानादस्मादपगच्छेत् ? । भवतु तावत् । अवलोकिनी विद्यां स्मरामि । (ध्यानं नाटयति ।) प्रहस्तः-अज्जे ! वेवदि मे हिढयं, जइ कहं पि मे अजउत्तो रावणदिट्टिगोयरं गच्छेजा विरूपं भवे । सीता-वत्से! मा भायहि, वणदेवयाओ दे भत्तारं रक्खिस्संति । रामः- वत्से ! कोऽयमनिष्टवितर्कः ? । उत्पातपावकतरङ्गपिशङ्गधारा निर्दग्धदुर्द्धरविरोधिशिरोधिवन्धः। हासं दधद् दिविषदां दशकन्धरस्य, कण्ठाटवीं खलु लविष्यति सूर्यहासः ॥ २१ ॥ रावणः - (समाकर्ण्य सरोपोपशमम्) दोर्विक्रमेण दशकन्धरमाक्षिपन्तं, रे रे भुजः ! सहत किं नरकीटमेनम् ? । ज्ञातं विदेहतनयापरिरम्भकेलि प्रत्याशया किमपि साम्प्रतमाकुलाः स्थः ॥ २२ ॥ १) भार्ये ! वेपति मे हृदयम् , यदि कथमपि मम आर्यपुत्रः रावणदृष्टिगोचरं गच्छेद् विरूपं भवेत् । २) चस्से ! मा भाहि, वनदेवताः ते भारं रक्षिष्यन्ति । रघु० ना. ३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002799
Book TitleRaghuvilasa Natakam
Original Sutra AuthorRamchandra Mahakavi
Author
PublisherBharatiya Vidya Bhavan
Publication Year1982
Total Pages102
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy