________________
महाकविश्रीरामचन्द्रसूरिरचितं (विमृश्य वैनतेयस्य कर्णे एवमेव । ) (वैनतेयो निष्क्रान्तः । )
। प्रविध्य) अवलोकनी-(सविनयम्)
सूर्या-चन्द्रमसौ ग्रसे, विघटये रात्रिन्दिवस्यावधि, __ पत्युभोंगभृतां हरे फणमणीन् , द्यावा-भुवौ मीलये। मान-स्थानविपर्ययेण विदधे स्त्री-पुंसयोर्लक्ष्मणी,
रक्षोराज ! नियोजय कचिदिमां कृत्ये निजां किङ्करीम् ॥२३॥ रावणः- अवलोकिनि! किमश्रद्धेयं भवत्याम् ? । किन्तु साम्प्रतं दवीयांसं देशमधिगम्य सिंहनादं कुरु ।।
(अवलोकिनी निष्क्रान्ता ।) सीता-(सभयम् ) अजउत्त! खर - रावणसंकुलम्मि समरम्मि लक्खणस्स किं पि भविस्सदि ? त्ति न जाणीयदि ।
रामः-देवि! मा भैषीः ।
रणरसिकभुजेभ्यो विक्रमोत्ताननेत्राः, ___ कति कति न रघुभ्यस्त्रासमासादयन्ति ? । यदि युधमधिजग्मुस्ते खराद्यास्ततः किं ?,
स्वयमथ स दशास्यः प्राप कोपात् ततः किम् ? ॥ २४ ॥ रावणः - ( सखेदम् ) किं पुनश्विरयत्यवलोकिनी ?।
(नेपथ्ये महान् सिंह वनिः ।) सीता--( सभयम् ) अजउत्त ! किं नेदं ? । वणदेवयाओ! अंबाओ! लक्खणस्स रक्खं करेह । एसो खु अट्ठमो अद्धचकवट्टी पिउणा अणाइट्ठो वि जिट्टबंधवनेहेण तुम्हाणं वणे समागदो।
रामः- (स्वगतम् ) किमिदमश्रद्धेयमाकर्ण्यते ? । सीता- अजउत्त ! गडुय परित्तायहि वत्सं ।
रामः- (विमृश्य सावष्टम्भम् ) देवि! मा भैपीः । प्रमोदजन्माऽयं सिंहध्वनिः, न पुनर्वीरप्रकाण्डं सौमित्रिर्निशाचरैः पराभूयते ।
१) आर्यपुत्र ! खर-रावणसङ्घले समरे लक्ष्मणस्य किमपि भविष्यति ? इति न ज्ञायते । २) आर्यपुत्र ! किमिदम् ? । वनदेवताः ! अम्बाः ! लक्ष्मणस्य रक्षां कुरुत । एष खलु अष्टमः अर्धचक्रवर्ती पित्रा अनादिष्टोऽपि ज्येष्ठबान्धवस्नेहेन युप्माकं वने समागतः। ३) आर्यपुत्र ! गत्वा परित्रायस्व वत्सम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org