________________
महाकविश्रीरामचन्द्रसूरिरचितं
ख्यातस्तातोऽप्यथ दशरथः किञ्चिदेतद् व्यधत्त,
व्यक्तं तस्मादजनि महतां सोऽपि पन्थाः कलङ्की ॥ १८ ॥ सुबुद्धि: - देव ! सत्यव्रताचरणपवित्रिते कर्मणि कोऽयं विषाद निषादप्रवेशः १ । राजा - ( साक्षेपम् ) रामभद्रप्रवासनाकालुष्यकश्मले कर्मणि कथमनुचितो विषादप्रवेश: ? ।
प्रतीहारः - विहितप्रवासनेपथ्यो रामभद्रकुमारो देवपादान् द्रष्टुमभिलपति । सुबुद्धि: - रामभद्र प्रवेशमादिशतु प्रतीहाराय देवः ।
( राजा सदुःखमधोमुखं तिष्ठति । )
कौशल्या - अजउत्त ! पविसदु वत्सो । पिच्छदु पिउणो पादे । सुमित्रा - अंज्जउत्त ! अणुजाणेहि वत्सं, जेण पिउणो पाए पिच्छदि । राजा - ( साक्षेपम् )
यत् (यः) पूर्व शतशो ममांहियुगलीमाबाल्यतो दृष्टवान्, भक्त्या तस्य बभूव देवि ! विपिने तावन्निवासः फलम् । तां सम्प्रत्यपि वीक्षितुं गुरुतरोत्कण्ठाव्यथाव्याकुलो
वत्सः कां पुनरप्ययं स्पृहयति श्रेयस्तमां सम्पदम् ? ॥ १९ ॥ कौशल्या - अजउत्त ! को एस पुणो पुणो अत्तणो विसायकिलेसो ? | प्रतीहारः - देव ! रामभद्रः कुमारो [.. राजा - ( साक्षेपम् )
"
नाsकीर्त्तिर्गणिता, श्रिता न सरणिलेोकस्य वृत्तं सतां न ध्यातं, गुणशालिनो हृदि धृतं पुत्रस्य न प्रेम च । चण्डालाचरणाश्चिते विरचिते कर्मण्यधर्माविले
वक्रं दर्शयितुं न मे समुचितं द्रष्टुं न रामस्य च ॥ २० ॥ अलं श्रुत्वा वाचं सपदि मम वत्सेन कलुषा
मरण्यानीं व्यालव्यसनशतकीर्णां प्रवसता । न नामादृश्यास्यः परमहमभाष्योऽपि महतां, तदास्तामास्तां मे वदनमपटीच्छादितमपि ॥ २१ ॥
· ]था समनुसर विपिनम् । शिवास्ते पन्थानः । दृष्टा एव शतशो वयम् । कृतमिदानीमस्मदर्शनेन ।
१ ) आर्यपुत्र ! प्रविशतु वत्सः । पश्यतु पितुः पादौ । २ ) आर्यपुत्र ! अनुजानीहि वत्सम्, येन पितुः पादौ पश्यति । ३) आर्यपुत्र ! क एष पुनः पुनः आत्मनः विषादक्केशः ? | प्रतिसत्के १५-१६ पत्रे त्रुटिते वर्त्तते इति खण्डितांशस्थाने उद्धारगतोंऽशोऽत्रोद्धृतोऽस्ति ।
४ ) अत्र तालपत्रीय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org