________________
रघुविलासनाटकम् -प्रथमोऽङ्कः । राजा-(सखेदम् ) आः प्राणाः ! पुरतोऽप्यमुं दशरथं यूयं ध्रुवं हास्यथ,
व्यातेने भुवनेऽत्र को नु पुरुषो ब्रूत स्थिरायुः स्थितिम् ? । तद् वत्सस्य गुणाम्बुधेर्वनमनु प्रस्थानवाश्रुितेः ___ पूर्व चेद् विजहीथ हन्त ! भवति श्रेयस्तरं *वस्तदा ॥ १५॥
(नेपथ्ये) सत्यं रघूद्वहपतेर्भरतस्य राज्यं, ___ मातुश्च केकयभुवः परमः प्रमोदः । मां काननाय दिशता जगतां हितेन,
तातेन कर्म किमु नाद्य कृतं यशस्यम् ? ॥ १६॥ राजा-अमात्य ! कोऽयमस्मानुपहसति ? । सुबुद्धिः - ( स्वरेण प्रत्यभिज्ञाय ) देव! रामभद्रकुमारो राजानमुपस्तौति ।
राजा-(सखेदमुच्चःस्वरम् ) आः कुलीनावतंस वत्स रामभद्र ! किं मां मर्मणि स्पृशसि ? । (आत्मानं पर्यके पातयति ।)
(प्रविश्य ) प्रतीहारः - विहितवनप्रवासनेपथ्यः सीता-लक्ष्मणाभ्यां सह रामभद्रकुमारो देवपादान् द्रष्टुमुत्कण्ठते ।
( राजा तूष्णीमास्ते ।)
( नेपथ्ये) श्रियं यः सन्त्यज्य श्रयति वनवासं पितृगिरा, __स रामो वा लोकस्तवनवचसामस्तु विषयः। सुमित्रापुत्रो वा गुरुजननिदेशादपि विना
निसर्गप्रीत्यैव व्रजति मुदितो राममनु यः ॥ १७ ॥ सुमित्रा-( कौशल्यां प्रति ) पियसहि ! वत्सलक्खणेण जेट्ठभायरमणुसरंतेण पसंसणीया कदाम्हि लोयाणं ।
राजा-अमात्य! वैमात्रेयोऽप्यकृत तदयं लक्ष्मणो रामभद्रे,
काकुत्स्थानां कुलमपतुलं येन जातं जगत्सु । * वः सदा उ० । १) परमप्रमोदम् उ० । २) जगतीहितेन उ० । ३) प्रियसखि ! वत्सलक्ष्मणेन ज्येष्ठभ्रातरमनुसरता प्रशंसनीया कृताऽस्मि लोकानाम् (लोकन्वित्यर्थः)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org