SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ महाकविश्रीरामचन्द्रसूरिरचितं aisa भोः ! ? ( इत्यर्द्धते मूर्च्छति । ) ( सर्वे सपूत्कारं चन्दनाद्यैरा सिञ्चन्ति । ) राजा - ( चेतनामास्थाय सगद्दस्वरम् ) गन्धर्वक ! | गन्धर्वक:- आदिशतु देवः । राजा - ( पुनः सवाप्पम् ) गन्धर्वक ! | गन्धर्वः - एषोऽस्मि । कृत्यमादिशतु देवः । ( राजा गन्धर्वस्य कर्णे एवमेव । ) ( गन्धकः मैन्दमन्दं रुदन् निष्क्रान्तः । ) राजा - (सबाप्पम् ) अमात्य ! ऋते सप्ताम्भोधिप्लवनविधुरं कल्पदनाद्, विना नानाप्रेस्प्रलय पवमानव्यतिकरैः । क्षिपन् वत्सं रामं वनभुवि हतोऽयं दशरथो, रघूणां पन्थानं न चरति न च प्राकृतनृणाम् ॥ १३ ॥ सुबुद्धि: - किमिदमादिश्यते देवेन ? | सत्यव्रताचरणं न किं रघूणां पन्थाः ? | राजा - ( क्षणमधोमुखो भूत्वा ) अमात्य ! स्त्रीवाभिपसार्य राज्यसमयान्निर्दोषमूर्जखलं पुत्रं ज्येष्ठमपास्तवान् दशरथः कान्तारवारांनिधौ । विश्वेषां जगतां स्तुतेः पदमसौ तत्रापि रामो हहा !, केयं शाश्वतिकी प्रशस्तिरयशः प्रारोहभूर्मय्यभूत् ? ॥ १४ ॥ सुबुद्धि: - देव! कोऽयं विचारविपर्यासः ? । ननु सत्यव्रताचरणमनथरी यशःप्रारोहभूमिः प्रशस्तिः । राजा - ( सखेदम् ) सत्यं विचार विपर्यासो मे, कथमपरथा वत्सं रामभद्रं वनाय प्रस्थापयामि ? | ( पुनः सरोषमिव ) अमात्य ! लोक एव मामतः परमुपहसितुं प्रगल्भष्यते, त्वं किमर्थमुपहससि ? । ( सुबुद्धिः सभयमधोमुखो भवति । ) कौशल्या - अय्यउत्त ! पसंसणिजे कम्मणि को एस विसायपिसाओ ? | राजा - (सखेदम् ) देवि ! त्वमपि विप्लावयसि । ( कौशल्या सभयमास्ते । ) १) मन्दं मन्दं उ० । २) भोधेः पुत्र उ० ॥ ३ ) करम् उ० । ४ कर्मणि क एष विषादपिशाचः ? | Jain Education International For Private & Personal Use Only ) आर्यपुत्र ! प्रशंसनीये www.jainelibrary.org
SR No.002799
Book TitleRaghuvilasa Natakam
Original Sutra AuthorRamchandra Mahakavi
Author
PublisherBharatiya Vidya Bhavan
Publication Year1982
Total Pages102
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy