Book Title: Prastavik Shloak Sangraha
Author(s): Priyankarvijay
Publisher: Dalichand Jain Granthmala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
धर्मः पर्वगतस्तपः कपटतः सत्यं च दूरे गतं, पृथ्वी मंदफला नृपाश्च कुटिलाः शस्त्रायुधा ब्राह्मणाः । लोकः स्त्रीषु रतः स्त्रियोऽति चपला लौल्ये स्थिता मानवाः; साधः सीदति दुर्जनः प्रभवति प्रायः प्रविष्टः कलिः ॥ २८ ॥
दु
निर्वीर्या पृथिवी निरौषधिरसा नीचा महत्त्वं गता, भूपाला निजधर्मकर्मरहिता विप्राः कुमार्गे रताः। भार्या भर्तृतियोगिनी पररता पुत्राः पितुद्वीपणा; हा! कष्टं खलु दुर्लभाः कलियुगे धन्या नराः सज्जनाः ॥२९।।
विद्यानाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनं, विद्या भोगकरी यशः सुखकरी विद्या गुरूणा गुरुः । विद्या बधुजनो विदेशगमने विद्या परा देवता, विद्या राजसु पूजिता न तु धनं विद्याविहीनः पशुः ॥ ३० ॥
-
भोगे रोगभयं सुखे क्षयभयं वित्तेऽग्निभूभृद्भयम्, माने म्लानिभयं जये रिपुभयं वंशे कुयोषिद्भयम् । दास्ये स्वामिभयं गुणे खलभयं काये कृतांताद्भयम् , सर्वनामभयं भयेदिह नृणां वैराग्यमेवाभयम्, ॥३१ ।।
For Private And Personal

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53