Book Title: Prastavik Shloak Sangraha
Author(s): Priyankarvijay
Publisher: Dalichand Jain Granthmala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
परोपकारशूनस्य, धिङ् मनुष्यस्य जीवितम् । जीवन्तु पशवो येषां, चर्माऽप्युपकरिष्यति
॥९५ ॥
यथा परोपकारेषु, नित्यं जागर्ति सज्जनः। तथा पराऽपकारेषु, नित्यं जागर्ति दुर्जनः
॥९६ ॥
संधयेत सरला सूची, वक्रा छेदाय कर्तरी । अतो विमुच्य वक्रत्वं, गुणानेव समाश्रय
॥९७ ॥
दिवा पश्यति नो घूरू, काको नक्तं न पश्यति । अपूर्वः कोऽपि कामान्धो, दिवा नक्तं न पश्यति ॥९८॥
मूर्खा मूखैः समं संगं, गावो गोभिर्मगा मृगैः । सुधीभिः सुधयो यांति, समशीले ही मित्रता । ९९।।
शतेषु जायते शूरः, सहस्रेषु च पण्डितः । वक्ता शतसहस्रेषु, दाता भवति वा न वा ॥१०॥
रे रे ! मण्डक ! मारोदीर्यदहं खण्डितोऽनया। . राम-रावण-मुञ्जाद्या, स्त्रीभिः के के न खण्डिताः ॥१०॥
For Private And Personal

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53