Book Title: Prastavik Shloak Sangraha
Author(s): Priyankarvijay
Publisher: Dalichand Jain Granthmala

View full book text
Previous | Next

Page 31
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir यावज्जीवं सुखं जीवेद् , ऋणं कृत्वा घृतं पिवेत् । भस्मीभूतस्य देहस्य, पुनरागमनं कुतः ? ॥ १२३ ॥ अनभ्यासे विषं शास्त्रं, अजीर्ण भोजनं विषम् । दरिद्रस्य विष गोष्ठी, वृद्धस्य तरुणी विषम् ॥ १२४ ॥ यस्य नास्ति स्वयं प्रज्ञा, शास्त्रं तस्य करोति किं । लोचनाभ्यां विहीनस्य, दर्पणः किं करिष्यति ? ॥१२५॥ न कार्या सर्व हिंसा, नरकस्येव दृतिका । परपीडा कृतः पुंसः, प्रत्यासमो न धर्मराट् ॥ १२६ ॥ कीटिका संचितं धान्यं, मक्षिका संचितं मधु । कृपणे संचितं वित्तं, तदन्यैरेव भुज्यते ॥ १२७॥ अनृतं साहसं माया, मूर्खत्व मतिलोभता । अशौचं निर्दयत्वं च, स्त्रीणां दोषाः स्वभावजाः ॥१२८॥ आशाया ये दासाः, ये दासा सर्वलोकस्य । आशा येषां दासी, तेषाम् दासायते लोकः ।। १२९॥ For Private And Personal

Loading...

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53