Book Title: Prastavik Shloak Sangraha
Author(s): Priyankarvijay
Publisher: Dalichand Jain Granthmala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
एक तडागे यद्यपि, पिबति भुजङ्गो जलं तथा गौश्च । परिणमति विषं सर्प, तदेव गवि जायते क्षीरम् ॥१३०॥
यो दद्यात्कांचनं मेरु, कृत्स्नां हिंसां परित्यजेत् । एकस्य जीवितं दद्या-न च तुल्यं युधिष्ठिर !॥ १३१ ।।
षट्पदः पुष्पमध्यस्थो, यथा सारं समुद्धरेत् । तथा सर्वेषु कार्येषु, सारं गृह्णाति बुद्धिमान् ॥ १३२ ॥
नष्टं नैव मृतं चैव, नानुशोचन्ति पण्डिताः । पण्डितानां जडानां च, विशेषोऽयमतः स्मृतः ॥ १३३ ॥
एकेन शुष्कवृक्षेण, दह्यमानेन वहिना । दाते काननं सर्व, दुष्पुत्रेण कुलं तथा । ॥ १३४ ॥
वाणी रसवती, यस्य भार्या प्रेमवती सती। लक्ष्मी दानवती, यस्य सफलं तस्य जीवितम् ॥ १३५ ।।
किं कुलेन विशालेन, विद्याहीनस्य देहिनः । अकुलीनोऽपि विद्यावान् , विबुधरपि पूज्यते ॥ १३६ ॥
For Private And Personal

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53