Book Title: Prakrit Vyakaranam
Author(s): Virchand Prabhudas Pandit
Publisher: Jagjivan Uttamchand Lehruchand Shah

View full book text
Previous | Next

Page 216
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (२१३) अपभ्रंशभाषान्तर्गतदृष्टान्तीकृतदोधकानां वृत्तिः १००१. ' ढोल्ला' नायकः श्यामल:, प्रिया चम्पकवर्णा, सुष. णरेखा कषपट्टके दत्ता इव । विपरितरतावेतदुपमानं संभाव्यते ॥ 'ढोल्ला' हे नायक ! मया त्वं वारितः, दीर्घ मानं मा कुरु, निद्रया गमिष्यति रात्रिः, शीघ्रं भवति [ भविष्यति ] प्रभातम् ॥ 'बिट्टीए'-हे पुत्रिके ! मया त्वं भणिता, मा कुरु वक्रां दृष्टिम् । हे पुत्रिके ! सकर्णा भल्लिरिव इयम् (तव दृष्टि:) मारयति हृदये प्रविष्टा ॥ 'एइ ति'- एते ते घोटकाः, एषा सा स्थली, एते ते निशिता खगाः, अत्र मनुष्यत्वं ज्ञायते, यो नैव वालयति वल्गाम् ।। १००२. 'दहमुहु'- दशमुखः भुवनभयंकरः तोषितशंकर:- पूजित शंकर: निर्गत: रथवरे चटितः। णावई' उत्प्रेक्ष्यते इत्यर्थः । चतुर्मुखं ब्रह्माणं षण्मुख कार्तिकेय ध्यात्वा एकस्मिन रावणे लगिन्या, कोऽर्थः ? एतद्वयमपि एकीकृत्य रावणो घटितः निर्मितः दैवेन, दशमुखत्वात् इत्यर्थ :॥ १००३ 'अगलिय'- अगलितस्नेहा: निवृत्ता वलिता तेषाम् योजनलक्षमपि यात्वा वर्षशतेनापि यो मिलति हेसखि ! सौख्यानां स पृष्ठगन्ता स्थानं तेषां प्राग्वर्तितानामित्यर्थः ॥ 'अङ्गहि'-अरश न मिलितम्, हे सखि ! अधरेण अ. धरो न प्राप्तः, प्रियस्य मुखकमलं पश्यन्त्या एवं सु. १ अस्मिन् मनुष्यत्वं वर्तते, यः पूर्व सैन्यं दृष्ट्वा स्वस्याश्व स्य वल्गां नैव वालयति, न पश्चान्निवर्तत इत्यर्थः ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247