Book Title: Prakrit Vyakaranam
Author(s): Virchand Prabhudas Pandit
Publisher: Jagjivan Uttamchand Lehruchand Shah
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एवं विधेन लोहेन घनस्तापः सह्यते ॥ १०९४. 'मई जाणिउ बुड्डीसु०' मग ज्ञातम्-अहं प्रेमद्रहे बुडि
ध्यामि । कथं 'हुहुरु' इति शब्दानुकरणं कृत्वा, नवरं केवलं मया विप्रियनौः (भाषायाम् ) वियोगबेडा अचिन्तिता झटिति संपतिता-प्राप्तेत्यर्थः ॥ 'खज्जा नउ कसरक्केहिं० ' कसरकैः प्रियो न खाद्यते, घुण्टकैर्न तु पीयते, 'पम्बह ' इत्थंभूतेऽपि नयनैः लोचनैदृष्टेन प्रियेण सुखाशा भवतीत्यर्थः । ' अजवि नाहु महुन्जि. ' अद्यापि 'जि' पवार्थ नाथो ममैव गृहे सिद्धार्थान् सर्षपान धन्दते, अर्थाच्चलितुकामोऽस्ति, तावदेव ' गवक्खेहिं ' ( गवाक्षेषु ) विलोकनैः विरहो मर्कटवत् ‘धुग्घिउ ' चापल्यं दत्ते । एसावता गवाक्षेषु मर्कटचेष्टां ददातीत्यर्थः ।। ‘सिरि जर-खण्डी लोअडिo ' शीर्षे ' जरखण्डी' जी. र्णा ' लोअडी ' लोमपटी कम्बलिका परिधानेऽस्ति । कण्ठे मणिकाः विंशत्यनुमिता न सन्ति, ' तोधि' त. थापि मुग्धया गोष्ठकाः गोष्ठपुरुषा गोपालाः गोष्ठं गोकुलं तत्र तिष्ठति इति गोष्ठाः · तास्थ्यात् तवयपदेशः '-इति न्यायागोष्ठस्थाः पुरुषाः उत्थानोपवेशनं
चेष्टानुकरणं कारिताः ।। १०९५. ' अम्मडि पच्छायाषडा०' हे अम्ब ! पश्चात्तापो वत्तते, धि
काले संध्यायां प्रियः कलहापित: (कलहित:) कलहयुक्तो
विहितः। विनाशस्य काले विपरीता बुद्धिर्भवतीत्यर्थः॥ १०९६. ' ढोल्ला एह परिहामडी० ' हे नायक ! एषा परिभा
षा रीति: ' अइभम ' अत्यमूता ( कस्मिन् देशे) व. ते इति शेषः हे प्रिये ! अहं तपकृते क्षयं प्राप्नोमि,
For Private and Personal Use Only

Page Navigation
1 ... 238 239 240 241 242 243 244 245 246 247