________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(२१३) अपभ्रंशभाषान्तर्गतदृष्टान्तीकृतदोधकानां वृत्तिः
१००१. ' ढोल्ला' नायकः श्यामल:, प्रिया चम्पकवर्णा, सुष.
णरेखा कषपट्टके दत्ता इव । विपरितरतावेतदुपमानं संभाव्यते ॥ 'ढोल्ला' हे नायक ! मया त्वं वारितः, दीर्घ मानं मा कुरु, निद्रया गमिष्यति रात्रिः, शीघ्रं भवति [ भविष्यति ] प्रभातम् ॥ 'बिट्टीए'-हे पुत्रिके ! मया त्वं भणिता, मा कुरु वक्रां दृष्टिम् । हे पुत्रिके ! सकर्णा भल्लिरिव इयम् (तव दृष्टि:) मारयति हृदये प्रविष्टा ॥ 'एइ ति'- एते ते घोटकाः, एषा सा स्थली, एते ते निशिता खगाः, अत्र मनुष्यत्वं ज्ञायते, यो नैव वालयति
वल्गाम् ।। १००२. 'दहमुहु'- दशमुखः भुवनभयंकरः तोषितशंकर:- पूजित
शंकर: निर्गत: रथवरे चटितः। णावई' उत्प्रेक्ष्यते इत्यर्थः । चतुर्मुखं ब्रह्माणं षण्मुख कार्तिकेय ध्यात्वा एकस्मिन रावणे लगिन्या, कोऽर्थः ? एतद्वयमपि एकीकृत्य
रावणो घटितः निर्मितः दैवेन, दशमुखत्वात् इत्यर्थ :॥ १००३ 'अगलिय'- अगलितस्नेहा: निवृत्ता वलिता तेषाम्
योजनलक्षमपि यात्वा वर्षशतेनापि यो मिलति हेसखि ! सौख्यानां स पृष्ठगन्ता स्थानं तेषां प्राग्वर्तितानामित्यर्थः ॥ 'अङ्गहि'-अरश न मिलितम्, हे सखि ! अधरेण अ.
धरो न प्राप्तः, प्रियस्य मुखकमलं पश्यन्त्या एवं सु. १ अस्मिन् मनुष्यत्वं वर्तते, यः पूर्व सैन्यं दृष्ट्वा स्वस्याश्व
स्य वल्गां नैव वालयति, न पश्चान्निवर्तत इत्यर्थः ॥
For Private and Personal Use Only