________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(२१४) रतं समाप्तम् । अतिरसातिरेकात्संभोगात्पूर्वमेघ द्राव
इति भावः ॥ १००४. 'जे महु'-ये मम दत्ता दिवसा दयितेन प्रवसता चलता
सता, तान् दिवसान गणयन्त्या ममाङगुल्यो जर्जरिता नखेन । दयितोक्तदिनानां वारंवारमगुलीपर्वभिर्गुणना
दित्यर्थः ॥ १००५ ' सायरु '-सागरः तृणानि उपरि धरति, तले क्षिपति
रत्नानि । स्वामी सुभृत्यमपि परिहरति, सन्मानयति
खलान् दुर्जनान् ॥ १००६. · गुणेहिं ' गुणैन संपदः, परं कीर्तिर्भवतु । (जीवाः )फ
लानि लिखितानि, ललाटपट्टिकायामिति गम्यते. भुञ्जन्ति । दृष्टान्तयति-केसरी कपर्दिकामपि न लभते, ग
जास्तु लक्षैगृह्यन्ते ॥ १००७. 'वच्छहे '-जनो वृक्षात् फलानि गृह्णाति, कटुपल्ल
वानि वर्जयति,तथापि महाद्रुमस्तान् पल्लवान उत्सङ्गे धरति, क इव ? यथा सुजनः कटुपल्लवप्रायानपि ज
नान् धरति न तु तिरस्करोतीत्यर्थः ॥ १००८. 'दूरुड्डाणे '-दूरोड्डीनेन दूरगमनेन पतितः खलो दुर्जन
आत्मानं जनं च मारयति । दृष्टान्तमाह-यथा गिरिशृङ्गेभ्यः पतिता शिला आत्मानमन्यमपि पतनस्थानस्थं
चूर्णीकरोतीत्यर्थ: ॥ १००९. 'जो गुण '-य आत्मीय गुणान् गोपयति, परस्य गुणान
प्रकटान् करोति, अहं तस्य कलियुगे दुर्लभस्य स्वजन
स्य सज्जनस्य वा बलिं-पूजां क्रिये?(करोमि) इति भावः॥ १०१०. ' तणहं '-तृणानां तृतीया भङ्गी नापि नैव तृतीयः प्र.
कारोऽस्ति, तेन. कारणेन अवटतटे कूपतटे वसन्ति ।
For Private and Personal Use Only