________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(२१२)
॥
अष्टमोऽध्यायः ॥ समाप्ता चेयं सिडहेमचन्द्रशब्दानुशासनवृतिः प्रकाशिकानामेति ॥ श्रासीद्विशां पतिरमुद्रचतुः समुद्रमुद्राङ्कितक्षितिभरक्षमबाहुदण्डः । श्रीमूलराज इति दुर्धर वैरकुम्भिकण्ठीरवः शुचिचुलुक्यकुलावतंसः ||१||
तस्यान्वये समजनि प्रबलप्रतापतिग्मद्यतिः क्षितिपतिर्जयसिंहदेवः । येन स्ववंशसवितर्यपरं सुधांशौ
श्रीसिद्धराज इति नाम निजं व्यलेखि॥ २ ॥ सम्यग् निषेव्य चतुरश्चतुरोऽप्युपायान् जित्वोपभुज्य च भुवं चतुरब्धिकाञ्चीम् । विद्याचतुष्टयविनीतमतिर्जितात्मा
काष्टामवाप पुरुषार्थचतुष्टये यः || ३ || तेनातिविस्तृतदुरागमविप्रकीर्ण
शब्दानुशासन समूहक दर्थितेन । अभ्यर्थितो निरवमं विधिवद्व्यधत्त शब्दानुशासनमिदं मुनिहेमचन्द्रः || ४ ||
ग्रन्थाग्रं २१८५ श्लोकाः ।
॥ श्री शुभं भवतु ॥
लेखक वाचकयोः शुभं कल्याणं भूयात् भवतु ।
For Private and Personal Use Only