Book Title: Prakrit Vyakaranam
Author(s): Virchand Prabhudas Pandit
Publisher: Jagjivan Uttamchand Lehruchand Shah
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(२२८) 'जइ भग्गा पारक्कडा० ' हे सखि ! यदि परकीया
भग्नास्ततो मम प्रियेण ॥ १०७० 'वासु महारिसि० ' व्यासो महर्षिः एतद्भणति-यदि
श्रुतिशास्त्रं प्रमाण तर्हि मातॄणां जननीनां चरणौ नमतां सतां दिवसे दिवसे गङ्गास्नानमित्यर्थः ।।
'वासेणवि भारह० ' व्यासेनापि भारतस्तम्भे बद्धाः॥ १०७१. ' अनउ० ' अन्यायं कुर्वतः पुरुषस्य आपत्-विपत् आ.
याति । न्यायं कुर्वतः पुरुषस्य सम्पद् भवति ॥ १०७२. ' केम समप्पउ० ' दुष्टी दिनः कथं समाप्यताम् । रा.
त्रिः कथं भवति ' छुडु' शीघ्रम् । सोऽपि नववधूदशनलालस एवंविधानिति शेष:, मनोरथान् वहतीत्यर्थः ।। ' ओ गोरी-मुह० ' ओ सूचनायां गौरीमुखविनिर्जितो मृगाङ्को वार्दले निलीन: । अन्योऽपि परिभूततनुः स निःशङ्क कथं भ्रमतीत्यर्थः ॥ 'विम्बाहरि तणु० ' हे श्रीआनन्द ! अथवा श्रीआनन्द शोभाकरं रदनवणं कथं स्थितम् ? कथमिति प्रश्ने । क्य बिम्बाधरे, कस्या:? तन्व्याः स्त्रियाः । उत्तरं ददाति'जणु' उत्प्रेक्ष्यते, प्रियेणाधरस्य निरुपम रसं पीत्या शेषरसस्य मुद्रा दत्तेत्यर्थ: ।। 'भण सहि निहुअउं० ' हे सखि मां प्रत्ति निभृतं छनं यथा स्यात्तथा भण कथय, यदि त्वया प्रियः सदो. षो दृष्टः । तस्यान्यतरस्य पक्षापतितं पाच स्थितं मम मनो यथा न जानाति भर्ता इति गम्यते, ममाग्रे तथा छन्नं वाच्य मित्यर्थः ।। 'जिव जिव० ' १०१५ वत् ॥ ' मई जाणिउ0 ' १०४८ वत् ॥
For Private and Personal Use Only

Page Navigation
1 ... 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247