Book Title: Nyayamanjari Part 02
Author(s): Jayant Bhatt, Chakradhar, Gaurinath Shastri
Publisher: Sampurnand Sanskrit Vishva Vidyalay

Previous | Next

Page 270
________________ आह्निकम् ] प्रमेयप्रकरणम् २२७ कतिपयक्षणव्यवधाने तु करोतीति । यद्येवं न कदाचित् कार्योत्पादः स्यात्, कार्योत्पादसमयेऽपि कतिपयक्षणव्यवहितकार्यजननस्वभावानपायात्, पुनः कतिपयक्षणाद्यवेक्षणं स्यात् तेष्वपि कतिपयेषु क्षणेष्वतिक्रान्तेषु स एवास्य स्वभावस्तदवस्थ इति पुनरप्येवं भवेदिति कदा नाम कार्यं जनयेत् ? तदेवमादिदोषोपहतत्वान्न क्रमेण भावानामर्थक्रियासामर्थ्यम् । 5 I नापि युगपत्, लोके तथा व्यवहारादर्शनात् । युगपत् कृतकस्यापि स्थिरस्य पुनरकरणे हेत्वभाव:, पुनश्च कुर्वन्नपि भावः कार्यं न तदेव कुर्यात्, कृतस्य करणायोगात्, कार्यान्तरकरणे तु स एवायं पुनः क्रमपक्ष आपतेदित्येवं क्रमयौगपद्ये नित्येभ्यः पदार्थेभ्यो निवर्तेते, ते च निवर्तमाने सत्त्वस्य व्यापके इति सत्त्वं तेभ्य आदायैव निवर्तेते, तेभ्यः प्रच्युतं सत्त्वं गत्यन्तरविरहात् क्षणिकेष्वेव निविशते । अतो यद्यपि कार्ये हेतौ धूमाग्न्योरिव स्वभावतावपि वा क्वचिद् वृक्षत्वशिशपात्वयोरिव पूर्वमिह साध्यसाधनधर्मयोर्ग्रहणं धर्म्यन्तरे न वृत्तं तथापि साध्यधर्मिण्येव व्याप्तिग्रहणमुपपत्स्यते विपक्षव्यावृत्तेः सुपरिनिश्चितत्वात् । यैव च विपक्षाद् व्यावृत्तिः स एव चास्य हेतोः स्वसाध्येनान्वयः । न ह्येवं सम्भवति नित्येभ्यश्च व्यावृत्तं सत्त्वं क्षणिकेषु 15 च न निष्ठमिति, तृतीयराश्यभावान्निराश्रयत्वानुपपत्तेश्च । तदेवं क्वचिद्धर्मिणि गृहोतायां यदि स एव कदाचित् परं प्रति दृष्टान्तोक्रियते, तदैवं नाम भवतु, को दोष इति ? 10 ननु व्यापकानुपलब्धेरनुमानमनुमानेन चानुमानस्य व्याप्तिग्रहणेSनवस्था ? नानवस्था, तावत्येव पर्यवसानात् । न हि व्यापकानुपलब्धेरनु - 20 मानान्तराद्व्याप्तिनिश्चयः, किन्तु प्रत्यक्षविकल्पादेव । तदनया व्याप्तिनिश्चयात् लोके तथा व्यवहारादर्शनादिति । स्नान - भोजन - शयनादीनां युगपत् क्रियाया अदृष्टेरित्यर्थः । तृतीयराश्यभावादिति । क्षणिकाक्षणिकापराया अभावात् । ननु व्यापकानुपलब्धेरनुमानमिति । तथाहि यथा सत्त्वं क्षणिकत्वसाधने व्याप्तिग्रहणमपेक्षते, अगृहीतव्याप्तिकस्य हेतोरगमकत्वात् एवं व्यापकानुपलब्धे - 25 रप्यनुमानत्वाद् व्याप्तिग्रहणमवश्यापेक्षणीयम्, अनपेक्षणे वा क्षणिकत्वानुमानस्यापि न स्यादपेक्षणम्, अनुमानत्वाविशेषात् । अनुमानान्तराद् व्याप्तिनिश्चय इति । ययोर्धर्मंयोर

Loading...

Page Navigation
1 ... 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384