Book Title: Nyayamanjari Part 02
Author(s): Jayant Bhatt, Chakradhar, Gaurinath Shastri
Publisher: Sampurnand Sanskrit Vishva Vidyalay

Previous | Next

Page 342
________________ आह्निकम् ] प्रमेयप्रकरणम् २९९ करणेषु युगपदुपलब्धयो न भवन्ति ततोऽवसीयते नूनं कारणान्तरधर्मेषु करणेषु युगपदुपलब्धयो न भवन्ति तच्च मन इत्याख्यायते । बुद्धेयौंगपद्याभाव एव मनःसाधनम् ननु च सुगन्धि शीतलां दीर्घामश्नन्तः पूपशष्कुलीम् । कपिलब्राह्मणाः सन्ति युगपत्पञ्चबुद्धयः । अपि च अयं खल्वध्यापकोऽधीते व्रजति कमण्डलुं धारयति पन्थानं पश्यति शृणोत्यरण्यजाञ् शब्दान् बिभ्यद् व्याललिङ्गानि वुभुत्सत इति क्रमाग्रहणाद् युगपदेता बुद्धयोऽस्य भवन्तीति ? न, आशूत्पत्तेः । सुच्यग्रभिद्यमानकोकनददलकदम्बकवदतिसूक्ष्मत्त्वात् कालस्य क्रमस्तत्र न विभाव्यते भवितव्यन्तु 10 तेनेति। यदि कारणान्तरनिरपेक्षचक्षुरादिकरणसाध्या एव रूपादिविषयोपलब्धयस्तदुत्तरकालमुपहतकरणानामपि कथं स्मरणादिरूपस्तदवमर्शः ? अतो नूनं नयनादिवत् करणान्तरं तद्ग्राहि विद्यते । अव्यापकञ्च तत्, व्यापित्वे हि बुद्धीनां यौगपद्यं न निवर्तेत । अपि चायं व्यवहारः, उक्तेऽपि क्वचिद् वचसि कश्चिदाह नाहमेतदश्रौषमन्यत्र मे 15 मनोऽभूत् इति, तस्माद् न व्यापकं मनः । प्रतिशरीरमेकञ्च च तत्, अनेकत्वे पुनरपि ज्ञानयोगपद्यानपायात् । क्रियावच्च तन्निष्क्रियेणेन्द्रियाणामधिष्ठातुमशक्यत्वात् । मूर्तञ्च तत्, अमूर्तस्य क्रियानुपपत्तेः, मूर्तत्वे सति नित्यञ्च निरवयवत्वादनाश्रितत्वाच्च । मूर्तत्वन्त्वनित्यतायामप्रयोजकमिति वक्ष्यामः । 20 निरवयवञ्च तत्, अवयवकल्पनायां प्रमाणाभावात् । वेगवच्च तत्, आशुसञ्चारात्, आशुसञ्चारमन्तरेणोपलब्धिदैय॑स्य दृष्टस्यानुपपत्तेः । दीर्घामश्नन्त इति । दोर्षामित्यनेन भक्ष्यमाणायाश्चक्षुर्णाह्यतामप्याह, दैर्ध्या बहिर्भागस्य त्रक्षुषा ग्रहणात् । 25

Loading...

Page Navigation
1 ... 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384