Book Title: Nyayamanjari Part 02
Author(s): Jayant Bhatt, Chakradhar, Gaurinath Shastri
Publisher: Sampurnand Sanskrit Vishva Vidyalay

Previous | Next

Page 351
________________ ३०८ [ अष्टमम् शरीरादि अनुत्पत्तिधर्मकमिति प्रत्यक्षविरुद्धम् पृथिव्यादेरप्यवयवसन्निवेशविशिष्टतया कार्यत्वादितीश्वरसिद्धौ निर्णीतम् । आकस्मिकत्वमपि शरीरादेः कार्यस्य न युक्तम्, कारणनियमोपलम्भादनिमित्तायाश्च भावोत्पत्तेरनुपपत्तेः । अभावादपि भावोत्पत्तिस्तादृगेवेति । गुणात्मकप्रधानविकारमहदहङ्कारादिकारणकत्वमपि कार्यस्य पृथिव्यादेः प्रागेव प्रपञ्चतः प्रतिषिद्धम् । अनारब्धावयविरूपकार्याः परमाणव एवैते सञ्चयविशिष्टाः सन्तो लोकयात्रां वहन्तीत्येतदपि न समीचीनम्, सञ्चयस्य भेदाभेदविकल्पाभ्यामनुपपद्यमानत्वात्, परमाणूनाञ्चातिसौक्ष्म्यादप्रत्यक्षत्वात् । पौद्गलिककार्यपक्षेऽपि पर्यायान्तरेण परमाणूनां कथनम्, अप्रमाणकत्वं वा । शब्दविवर्तत्वं तदनुगमाग्रहणादनुप 10 पन्नम् । परमात्मोपादानत्वमपि न सम्भवति तस्यैव निष्प्रमाणकत्वात् । न च न कदाचिदनीदृशं जगदिति पादप्रसारिकामात्रं कर्तुमुचितम्, सर्गप्रबन्धप्रलयप्रबन्धस्य समर्थितत्वादिति । 5 15 20 25 यामञ्ज अतश्च पक्षान्तरदुर्बलत्वाद् यथोदितः सिध्यति भूतवर्गः । तं यस्तु पश्यन्नपि निह्नुवीत तस्मै नमः पण्डितशेखराय ।। अनारब्धावयविरूपकार्या इत्यादिना सौत्रान्तिकमतमाह । पौद्गलिककार्या इत्यादिना अर्हन्मतमुक्तम् । पर्यायान्तरेण परमाणुशब्देन । तदनुगमाग्रहणादिति । मृद्विवर्ता घटादयो मृद्रूपानुगता गृह्यन्ते नैवं शब्दानुगतार्थस्ता अर्थाः । परमात्मोपादानत्वमिति । सर्वत्र पृथिव्यादौ परिणामवशेन चैतन्याभिव्यक्तिदर्शनात् चेतनोपादानत्वमेव सर्वस्य युक्तम् नाचेतनप्रधानपरमाण्वाद्युपादानत्वम् अचेतनावदुत्पत्त्यसम्भवादिति परमात्मोपादानत्ववादिनां मतम् । प्रमाणमप्याहुः यत् सामान्यविशेषवद् वस्तु तत् सर्वं कारणैकनिष्ठम्, यथा घटादि, यत् पुनः कारणैकनिष्ठं न भवति तत् सामान्यविशेषवदपि न भवति । परमकारणं परमात्मा, न हि तस्यैकत्वात् केनचित् सह सामान्यं रूपमस्ति, एकत्वादेव च न तस्य कुतश्चिद् विशेष इति । अत एव न परमाणूनां परमकारणत्वं प्रधानस्य च तेषामपि सामान्यविशेषवत्त्वात् । तथाहि परमाणूनां परमाणुत्वं सामान्यम्, अन्त्य विशेषाश्च विद्यन्त एव । सत्त्वरजस्तमसामपि अचेतनत्वं सामान्यम्, परस्परञ्च विशेषा विद्यन्त एव, अन्यथा त्रित्वानुपपत्तेरिति । श्रुतिमप्याहुः, "यथोर्णनाभिः सृजते गृहृते च यथा पृथिव्यामोषधयः सम्भवन्ति । यथा सतः पुरुषात् केशलोमानि तथा अक्षरात् सम्भवतीह विश्वम्" इति ।

Loading...

Page Navigation
1 ... 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384