Book Title: Nyayamanjari Part 02
Author(s): Jayant Bhatt, Chakradhar, Gaurinath Shastri
Publisher: Sampurnand Sanskrit Vishva Vidyalay

Previous | Next

Page 353
________________ ३१० न्यायमञ्जयां [अष्टमम् परदाराभिमर्षणादौ हि क्रियाफलं सुरतसुखादि सद्यः फलम्, निषेधविधिफलन्तु नरकपतनं पारलौकिकम्, स्वर्गवन्नरकस्यापि निरतिशयदुःखात्मनस्तदन्यथानुपपत्तिकल्पितदेशस्य वा एतच्छरीरानुपभोगयोग्यत्वात् । तीव्रसंवेगनिर्वृत्तकर्म विहितमितरद् वा प्रत्यासन्नविपाकमिहैव भवति नन्दीश्वरनहुषयोरिवेत्यागम5 विदः । चौरब्रह्मघ्नादयश्च केचित् प्रत्यासन्नप्रत्यवायाः प्रायेण दृश्यन्त एवेत्येवमेष विचित्रः कर्मणां विपाकः । . . ___यदपि चोच्यते कर्मकाले फलं नास्ति फलकाले कर्म नास्ति कालान्तरे च फलस्यान्यत् प्रत्यक्षं कारणमुपलभ्यते सेवादिकमिति, तदपि पूर्वं परिहतम् । कर्मणां विनाशेऽपि तज्जनितस्यात्मसंस्कारस्य धर्माधर्मशब्दवाच्यस्य भावात्, दृष्टस्य च सेवादेः कारणस्य व्यभिचाराददृष्टकल्पनाया अवश्यम्भावित्वात् । 'धर्मादेरात्मनि फलसमवायात् फलस्य च पुत्रपश्वादेरन्यसमवेतत्वाद् भिन्नाधिकरणत्वं कर्मफलयोः' इत्यपि न चोद्यम्, मुख्यस्य सुखदुःखात्मनः फलस्य भिन्नाश्रयत्वानुपपत्तेः, सुखदुःखे ह्यात्मनि वर्तेते धर्माधमौ च तत्स्थावेवेति । दुष्टेनैव सुखस्य कारणमतस्तद्धतुरागेण किं दुःखस्यापि न तन्निबन्धनमिति द्वेषस्तदर्थेषु कः । तस्मात् कर्मनिमित्तकं फलमिति ध्यायन्न कुर्यात् कृती सङ्गं कर्मणि येन दुस्तरमसौ संसारमापद्यते ॥ नन्दोश्वरनहुषयोरिति । नन्दिनामा ब्राह्मणकुमारको विप्रेभ्य आत्मनोऽल्पा20 युट्वमवगम्य तादृशं तीव्रतपोविशेषरूपं कर्माकरोद् येनं तेनैव शरीरेण भगवतः शङ्करस्य गणाधिपत्यपूर्वकमजरामरत्वमवाप येनाद्यापि नन्दीश्वर इति ईश्वरशब्देन व्यवहियते । नहुषाख्यश्च सोमवंशप्रभवो राजर्षिर्मंहता पुण्यकर्मसम्भारेणैन्द्रपदमवाप्य ब्राह्मणान् स्ववाहनकर्मण्यश्ववद् नियुञ्जानो ब्राह्यणशापात् सद्य एवाजगरत्वमवाप । तीव्रसंबेगेति । तोवसंवेगेन महता प्रयत्नेन सर्वात्मना तत्परायणत्वेन निवृत्तम् । फलस्य च पुत्रपश्चादेरन्यत्र समवेतत्वादिति । अन्यत्रसमवेतत्वं स्वावयवसमवेतत्वम् पुत्रादेरत्र विवक्षितम् । मुख्यस्य पुत्रजन्मजस्य । तद्धतुरागेण सुखहेतुरागेण । 25

Loading...

Page Navigation
1 ... 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384