________________
३१०
न्यायमञ्जयां
[अष्टमम् परदाराभिमर्षणादौ हि क्रियाफलं सुरतसुखादि सद्यः फलम्, निषेधविधिफलन्तु नरकपतनं पारलौकिकम्, स्वर्गवन्नरकस्यापि निरतिशयदुःखात्मनस्तदन्यथानुपपत्तिकल्पितदेशस्य वा एतच्छरीरानुपभोगयोग्यत्वात् । तीव्रसंवेगनिर्वृत्तकर्म
विहितमितरद् वा प्रत्यासन्नविपाकमिहैव भवति नन्दीश्वरनहुषयोरिवेत्यागम5 विदः । चौरब्रह्मघ्नादयश्च केचित् प्रत्यासन्नप्रत्यवायाः प्रायेण दृश्यन्त एवेत्येवमेष विचित्रः कर्मणां विपाकः । . . ___यदपि चोच्यते कर्मकाले फलं नास्ति फलकाले कर्म नास्ति कालान्तरे च फलस्यान्यत् प्रत्यक्षं कारणमुपलभ्यते सेवादिकमिति, तदपि पूर्वं परिहतम् । कर्मणां विनाशेऽपि तज्जनितस्यात्मसंस्कारस्य धर्माधर्मशब्दवाच्यस्य भावात्, दृष्टस्य च सेवादेः कारणस्य व्यभिचाराददृष्टकल्पनाया अवश्यम्भावित्वात् । 'धर्मादेरात्मनि फलसमवायात् फलस्य च पुत्रपश्वादेरन्यसमवेतत्वाद् भिन्नाधिकरणत्वं कर्मफलयोः' इत्यपि न चोद्यम्, मुख्यस्य सुखदुःखात्मनः फलस्य भिन्नाश्रयत्वानुपपत्तेः, सुखदुःखे ह्यात्मनि वर्तेते धर्माधमौ च तत्स्थावेवेति ।
दुष्टेनैव सुखस्य कारणमतस्तद्धतुरागेण किं दुःखस्यापि न तन्निबन्धनमिति द्वेषस्तदर्थेषु कः । तस्मात् कर्मनिमित्तकं फलमिति ध्यायन्न कुर्यात् कृती सङ्गं कर्मणि येन दुस्तरमसौ संसारमापद्यते ॥
नन्दोश्वरनहुषयोरिति । नन्दिनामा ब्राह्मणकुमारको विप्रेभ्य आत्मनोऽल्पा20 युट्वमवगम्य तादृशं तीव्रतपोविशेषरूपं कर्माकरोद् येनं तेनैव शरीरेण भगवतः शङ्करस्य
गणाधिपत्यपूर्वकमजरामरत्वमवाप येनाद्यापि नन्दीश्वर इति ईश्वरशब्देन व्यवहियते । नहुषाख्यश्च सोमवंशप्रभवो राजर्षिर्मंहता पुण्यकर्मसम्भारेणैन्द्रपदमवाप्य ब्राह्मणान् स्ववाहनकर्मण्यश्ववद् नियुञ्जानो ब्राह्यणशापात् सद्य एवाजगरत्वमवाप । तीव्रसंबेगेति । तोवसंवेगेन महता प्रयत्नेन सर्वात्मना तत्परायणत्वेन निवृत्तम् ।
फलस्य च पुत्रपश्चादेरन्यत्र समवेतत्वादिति । अन्यत्रसमवेतत्वं स्वावयवसमवेतत्वम् पुत्रादेरत्र विवक्षितम् । मुख्यस्य पुत्रजन्मजस्य । तद्धतुरागेण सुखहेतुरागेण ।
25