SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ प्रमेयप्रकरणम् अनादौ संसारे स्थितमिदमहो मूढमनसां मरणमथ मृत्वापि जननम् । जनित्वा जन्तूनां इयं सा दुःखानां सरणिरिति सञ्चिन्त्य कृतिना विधातव्यं चेतो जननमरणोच्छेदिनि पदे ॥ आह्निकम् ] फलपरीक्षा ३०९ प्रवृत्तिदोषजनितोऽर्थः फलम् ॥ प्रवृत्तिर्दोषाश्च व्याख्याताः, तज्जनितोऽर्थः फलमित्युच्यते । अर्थंग्रहणं गौणमुख्यभेदप्रदर्शनार्थम् । सुखदुःखे मुख्यं फलं तत्साधनन्तु शरीरेन्द्रियविषयादि गौणम् । सर्वं हीदं प्रवृत्तिदोषाक्षिप्तं फलमित्युक्तम् । तदिदमनादिना प्रबन्धेन प्रवर्तमानं फलं पुनरुपयुज्यते पुनस्त्यज्यत इति महतः खेदस्य हेतुरिति भाव्यमानं निर्वेदवैराग्यादिमार्गेणापवर्गोपयोगितां प्रतिपद्यते । आत्तमात्तं विजहतस्त्यक्तं त्यक्तञ्च गृह्णतः । पुंसः फलपटीयन्त्रमहो कष्ट : परिश्रमः ॥ 5 अनियतफलन्तु चित्रादि कैश्चिदुक्तम्, तच्च युक्तमयुक्तं वेति तत्रैव परीक्षितम् । निषिद्धस्य तु कर्मणः सर्वस्यैव प्रायेण परलोक एव फलम्, 10 तत् पुनः फलं कर्मणा किं सद्य एव सम्पद्यते कालान्तरेण वा ? उच्यते, द्विविधं कर्म विहितं निषिद्धश्च तत्र विधिफलानां कालनियमो नास्ति, क्रियाफलं दोग्धि पचतीति समनन्तरमुत्पद्यमानं दृश्यते । विधिफलानान्तु नैष नियम इति शब्दपरीक्षायां चित्राक्षेपपरिहारावसरे निरूपितमेतत् । विधिफलमपि च किञ्चन चोदनावचनपर्यालोचनया सद्य इति निश्चीयते वृष्टिरिव कार्या:, किञ्चिदैहिकफलमपि कर्म वस्तुबलात् कालान्तरापेक्षं भवति पुत्रेष्ट्यादि, न हि सहसैव निधिलाभवत् पुत्रलाभः सम्भवति गर्भसम्भवहेतुभूत - 20 भार्यापरीरम्भादिक्रमापेक्षत्वात् । ज्योतिष्टोमादि तु स्वर्गफलं कर्म फलस्वरूपमहिम्नैव पारलौकिकफलमवतिष्ठते । स्वर्गो हि निरतिशया प्रीतिस्तदन्यथानुपपत्ति परिकल्पितः कनकगिरिशिखरादिर्वा देशः, उभयथापि नैतद्देहोपभोग्यतां प्रतिपद्यते । 15 25
SR No.002346
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorJayant Bhatt, Chakradhar, Gaurinath Shastri
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1983
Total Pages384
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy