________________
३०८
[ अष्टमम्
शरीरादि अनुत्पत्तिधर्मकमिति प्रत्यक्षविरुद्धम् पृथिव्यादेरप्यवयवसन्निवेशविशिष्टतया कार्यत्वादितीश्वरसिद्धौ निर्णीतम् । आकस्मिकत्वमपि शरीरादेः कार्यस्य न युक्तम्, कारणनियमोपलम्भादनिमित्तायाश्च भावोत्पत्तेरनुपपत्तेः । अभावादपि भावोत्पत्तिस्तादृगेवेति । गुणात्मकप्रधानविकारमहदहङ्कारादिकारणकत्वमपि कार्यस्य पृथिव्यादेः प्रागेव प्रपञ्चतः प्रतिषिद्धम् । अनारब्धावयविरूपकार्याः परमाणव एवैते सञ्चयविशिष्टाः सन्तो लोकयात्रां वहन्तीत्येतदपि न समीचीनम्, सञ्चयस्य भेदाभेदविकल्पाभ्यामनुपपद्यमानत्वात्, परमाणूनाञ्चातिसौक्ष्म्यादप्रत्यक्षत्वात् । पौद्गलिककार्यपक्षेऽपि पर्यायान्तरेण परमाणूनां कथनम्, अप्रमाणकत्वं वा । शब्दविवर्तत्वं तदनुगमाग्रहणादनुप 10 पन्नम् । परमात्मोपादानत्वमपि न सम्भवति तस्यैव निष्प्रमाणकत्वात् । न च न कदाचिदनीदृशं जगदिति पादप्रसारिकामात्रं कर्तुमुचितम्, सर्गप्रबन्धप्रलयप्रबन्धस्य समर्थितत्वादिति ।
5
15
20
25
यामञ्ज
अतश्च पक्षान्तरदुर्बलत्वाद् यथोदितः सिध्यति भूतवर्गः । तं यस्तु पश्यन्नपि निह्नुवीत तस्मै नमः पण्डितशेखराय ।। अनारब्धावयविरूपकार्या इत्यादिना सौत्रान्तिकमतमाह । पौद्गलिककार्या इत्यादिना अर्हन्मतमुक्तम् । पर्यायान्तरेण परमाणुशब्देन । तदनुगमाग्रहणादिति । मृद्विवर्ता घटादयो मृद्रूपानुगता गृह्यन्ते नैवं शब्दानुगतार्थस्ता अर्थाः । परमात्मोपादानत्वमिति । सर्वत्र पृथिव्यादौ परिणामवशेन चैतन्याभिव्यक्तिदर्शनात् चेतनोपादानत्वमेव सर्वस्य युक्तम् नाचेतनप्रधानपरमाण्वाद्युपादानत्वम् अचेतनावदुत्पत्त्यसम्भवादिति परमात्मोपादानत्ववादिनां मतम् । प्रमाणमप्याहुः यत् सामान्यविशेषवद् वस्तु तत् सर्वं कारणैकनिष्ठम्, यथा घटादि, यत् पुनः कारणैकनिष्ठं न भवति तत् सामान्यविशेषवदपि न भवति । परमकारणं परमात्मा, न हि तस्यैकत्वात् केनचित् सह सामान्यं रूपमस्ति, एकत्वादेव च न तस्य कुतश्चिद् विशेष इति । अत एव न परमाणूनां परमकारणत्वं प्रधानस्य च तेषामपि सामान्यविशेषवत्त्वात् । तथाहि परमाणूनां परमाणुत्वं सामान्यम्, अन्त्य विशेषाश्च विद्यन्त एव । सत्त्वरजस्तमसामपि अचेतनत्वं सामान्यम्, परस्परञ्च विशेषा विद्यन्त एव, अन्यथा त्रित्वानुपपत्तेरिति । श्रुतिमप्याहुः, "यथोर्णनाभिः सृजते गृहृते च यथा पृथिव्यामोषधयः सम्भवन्ति । यथा सतः पुरुषात् केशलोमानि तथा अक्षरात् सम्भवतीह विश्वम्" इति ।