________________
आह्निकम् ]
दुःखपरीक्षा
प्रमेयप्रकरणम्
बाधनालक्षणं दुःखम् ॥
बाधना पीडनं सन्तापनम्, सा लक्षणमस्येति बाधनालक्षणं दुःखम् । तत्र मुख्ये दुःखे लक्ष्ये लक्षणशब्दो यथाश्रुत एव, बाधन्यैव हि दुःखस्वरूपं लक्ष्यते बाधयति पीडयतीति । गौणे तु दुःखे शरीरादौ लक्ष्ये बाधनानुषक्तमिति 5 व्याख्येयम् ।
३११
ननु च पूर्वसूत्राख्यातेन फलग्रहणेनैव दुःखस्योपदिष्टत्वात् किमर्थं पुनरुपदेशः, सुखप्रत्याख्यानार्थमिति चेत्, न, पूर्वापरविरोधात्, सकलंप्राणभृद.नुभवसाक्षिकत्वेन च सुखस्य प्रत्याख्यातुमशक्यत्वात् । तत्प्रत्याख्याने च विवक्षिते किमर्थं प्रमेयसूत्रे फलोपादानम् ? फले खलु सुखदुःखे इति व्याख्यातम्, ततश्च सुखप्रत्याख्याने दुःखमेवावशिष्यते तच्चानेन दुःखशब्देनैव निर्दिष्टमिति किं फलग्रहणेन ? उच्यते, न सुखलेशस्य संसारे जन्तुभिरन्तरान्तरानुभूयमानस्य प्रत्याख्यानाय दुःखग्रहणम्, सर्वत्र तथात्वभावनोपदेशार्थं सन्नपि सुखलवो दुःखमेवेति भावयितव्यस्तत्साधनमपि सर्वं दुःखमेवेति मन्तव्यम् ।
न तद् व्यवसितं पुंसां न तत् कर्म न तद् वचः । न तद् भोग्यं समस्तीह यन्न दुःखाय जायते ॥
तदित्थं दुःखमुत्कृष्टं तिरश्चाम्, मध्यमं मनुष्याणाम्, हीनं देवानाम्, हीनतरं वीतरागाणामित्यागमविदः । वीतरागाणां दुःखतानवं युक्तितोऽप्यवगम्यते,
दुःखस्य रागनिबन्धनत्वात् ।
तत्त्वतश्चिन्त्यमानं हि सर्वं दुःखं विवेकिनः । विषसम्पृक्तमधुवत् सर्वं दुःखीभवत्यदः ।। सुखाधिगमलोभेन यतमानो हि पुरुषः । सहस्रशाखमाप्नोति दुःखमेव तदर्जने ॥ एवं सर्वमिदं दुःखमिति भावयतोऽनिशम् । सर्वोपपत्तिस्थानेषु निर्वेदोऽस्य प्रवर्त्तते ॥
न पूर्वापरविरोधादिति । पूर्वं दुःखवत् सुखस्यापि फलतया प्रतिपादनात् ।
10
15
20
25