________________
5
10
15
20
३१२
न्यायमञ्जय
निर्विण्णस्य च वैराग्यं विरक्तस्य च देहिनः क्लेशकर्मप्रहाणादिद्वारो निःश्रेयसोदयः ॥
[ अष्टमम्
नन्वेवं तर्हि फलग्रहणं न कर्तव्यम्, दुःखपदेनैव गतार्थत्वादित्युक्तं, मैवम्, तस्यान्यप्रयोजनत्वात् । प्रवृत्ति दोषजनितत्वेन हि फलमनुचिन्तितवतस्तत्कारणयोरनुकूलप्रतिकूलयोरस्य रागद्वेषौ मा भूताम्, अभ्यावृत्त्या च ससाधनस्य फलस्य हानोपादानस्रोत सोह्यमानस्तत्रात्यन्ताय निर्विद्यतामिति फलग्रहणम् । तदेवमन्यथा फलस्य निःश्रेयसोपयोगित्वमन्यथा तु फलत्वे सत्यपि दुःखस्येति । दीर्घंस्य दुःखस्य निमित्तभूतं सुखञ्च दुःखात्मकमेव सर्वम् । मुमुक्षुणा यतया विचिन्त्यं देहादिदुःखान्तमिदं प्रमेयम् ॥ इति निपुणमतिर्यो दुःखमेवेति सर्वं परिहरति शरीरे क्लेशकर्मादिजातम् । अजममरमनन्तं चिन्तयन्नात्मतत्त्वं गतभयमपवर्गं शाश्वतं सोऽभ्युपैति ॥
इति श्रीभट्टजयन्तस्य कृतौ न्यायमञ्जर्यामष्टममाह्निकम् ।।
तत्कारणयोरनुकूल प्रतिकूलयोरिति । तदा हि तयोरकारणत्वाद् न तद्विषय रागद्वेषयुक्तौ ।
अजममरम् जन्मविनाशरहितम्, अनन्तमात्मनस्तेन रूपेणावस्थानात् शाश्वतम् व्यापकमिति ।
भट्टश्रीशङ्करात्मजचक्रधरकृते न्यायमञ्जरोग्रन्थिभङ्गे अष्टमम् आह्निकम्