Book Title: Nyayamanjari Part 02
Author(s): Jayant Bhatt, Chakradhar, Gaurinath Shastri
Publisher: Sampurnand Sanskrit Vishva Vidyalay

Previous | Next

Page 355
________________ 5 10 15 20 ३१२ न्यायमञ्जय निर्विण्णस्य च वैराग्यं विरक्तस्य च देहिनः क्लेशकर्मप्रहाणादिद्वारो निःश्रेयसोदयः ॥ [ अष्टमम् नन्वेवं तर्हि फलग्रहणं न कर्तव्यम्, दुःखपदेनैव गतार्थत्वादित्युक्तं, मैवम्, तस्यान्यप्रयोजनत्वात् । प्रवृत्ति दोषजनितत्वेन हि फलमनुचिन्तितवतस्तत्कारणयोरनुकूलप्रतिकूलयोरस्य रागद्वेषौ मा भूताम्, अभ्यावृत्त्या च ससाधनस्य फलस्य हानोपादानस्रोत सोह्यमानस्तत्रात्यन्ताय निर्विद्यतामिति फलग्रहणम् । तदेवमन्यथा फलस्य निःश्रेयसोपयोगित्वमन्यथा तु फलत्वे सत्यपि दुःखस्येति । दीर्घंस्य दुःखस्य निमित्तभूतं सुखञ्च दुःखात्मकमेव सर्वम् । मुमुक्षुणा यतया विचिन्त्यं देहादिदुःखान्तमिदं प्रमेयम् ॥ इति निपुणमतिर्यो दुःखमेवेति सर्वं परिहरति शरीरे क्लेशकर्मादिजातम् । अजममरमनन्तं चिन्तयन्नात्मतत्त्वं गतभयमपवर्गं शाश्वतं सोऽभ्युपैति ॥ इति श्रीभट्टजयन्तस्य कृतौ न्यायमञ्जर्यामष्टममाह्निकम् ।। तत्कारणयोरनुकूल प्रतिकूलयोरिति । तदा हि तयोरकारणत्वाद् न तद्विषय रागद्वेषयुक्तौ । अजममरम् जन्मविनाशरहितम्, अनन्तमात्मनस्तेन रूपेणावस्थानात् शाश्वतम् व्यापकमिति । भट्टश्रीशङ्करात्मजचक्रधरकृते न्यायमञ्जरोग्रन्थिभङ्गे अष्टमम् आह्निकम्

Loading...

Page Navigation
1 ... 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384