Book Title: Nyayamanjari Part 02
Author(s): Jayant Bhatt, Chakradhar, Gaurinath Shastri
Publisher: Sampurnand Sanskrit Vishva Vidyalay

Previous | Next

Page 347
________________ ३०४ न्यायमञ्जऱ्यां [ अष्टमम् मिथ्यासङ्कल्पादुत्पद्यमानयोरनुभवात्, कुसङ्कल्पश्च मिथ्याज्ञानप्रवृत्तिरेव । मिथ्याज्ञानस्यैव भगवतः सर्वमिदं विलसितं योऽयमनेकप्रकारः संसारदुःखभारः । यद्येवं न तहि मोहस्य दोषत्वं दोषकारणत्वादिति ? न, लक्षणान पायात्, सत्यपि दोषान्तरहेतुत्वे स्वयमपि पुरुषप्रवृत्तिप्रयोजकत्वलक्षणयोगाद् 5 रागवद् दोषत्वं न मोहो विजहाति । दोषस्य हेयत्वम् त इमे दोषाः संसारहेतव इति यत्नतः शमनीयाः । कथं पुनरमी शमयितुं शक्याः ? उक्तमत्र नाकस्मिका न नित्या नाज्ञातशमनोपाया न चाशक्यप्रतिक्रिया इति । विस्तरतश्चैतदपवर्गाह्निके परीक्षिष्यते, मिथ्याज्ञाननिमित्ताः खल्वेते दोषास्तस्मिन् सम्यग्ज्ञानप्रभावनिहते हेतोरभावाद् न भवन्त्येवेति । नन्वेवं प्रसवविनाशकारणयोरेकत्वादेक एव दोषो भवेदिति त्रित्वं नोपपद्यते, न, अनुभबसिद्धभेदत्वात् । अनुभूयते हि रागद्वेषमोहानामितरेतर विभक्तं स्वरूपम्, कारणैकत्वन्तु न प्रयोजकम्, एकस्मादेव ज्वलनसंयोगा15 दुत्पद्यमानानां विनश्यताञ्च पार्थिवपदार्थवृत्तीनां गन्धरसरूपस्पर्शानां नानात्वदर्शनात् । अतः सूक्तं दोषाणां त्रैराश्यमिति । संसारकाराभवनप्रवेशमार्गास्त एते त्रय एव दोपाः । एषां प्रहाणोद्यममादधानो न जन्ममृत्यू पुनरभ्युपैति ।। प्रेत्यभावपरीक्षणम् 20 पुनरुत्पत्तिः प्रेत्यभावः ॥ कस्येयं पुनरुत्पत्तिरुच्यते, आत्मनः शरीरस्य वा ? तत्रात्मनो नित्यत्वादुत्पत्तिरेव नास्ति का कथा पुनःशब्दार्थस्य । शरीरस्य तूत्पत्तिरस्ति न तु पौनःपुन्येन । न हि मृतं शरीरं तदेव पुनरुत्पद्यते, तस्मात् पुनरुत्पत्तिः न चाशक्यप्रतिक्रिया इति । ज्ञातशमनोपायानामपि तदुपायस्य वैकल्येनप्रतिक25 तुमशक्यत्वादशक्यप्रतिक्रियत्वम् ।

Loading...

Page Navigation
1 ... 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384