Book Title: Nyayamanjari Part 02
Author(s): Jayant Bhatt, Chakradhar, Gaurinath Shastri
Publisher: Sampurnand Sanskrit Vishva Vidyalay

Previous | Next

Page 346
________________ आह्निकम् ] प्रमेयप्रकरणम् ३०३ प्रवर्तयन्तीति प्रवर्तनालक्षणा इत्युक्ताः । परसन्तानवर्तिनां दोषाणामप्रत्यक्षत्वात् तत्प्रतीतये प्रवर्तनालक्षणत्वकथनमिति त्वपव्याख्यानमल्पप्रयोजनत्वादिति । दोषविभागः तेषां दोषाणां त्रयो राशयो भवन्ति रागो द्वेषो मोह इति । तत्रानुकूलेष्वर्थेष्वभिलाषलक्षणो रागः, प्रतिकूलेष्वसहलक्षणो द्वेषः, वस्तुपरमार्थापरिच्छेद 5 लक्षणो मिथ्यावसायो मोहः । दोषविभागे न्यूनतापरिहारः नन चेासूयालोभमानमदमत्सरादिदोषान्तरसम्भवात् कथं त्रय एव दोषाः ? न, ईर्ष्यादीनां यथानिर्दिष्टेष्वेवान्तर्भावात् । कामो मत्सरः स्पृहा तृष्णा लोभ इति पञ्चप्रकारो रागपक्षः । स्त्रीसम्भोगेच्छा कामः, यदन्यस्मै निवेद्य- 10 मानमपि वस्तु धनवन्न क्षीयते तदपरित्यागेच्छा मत्सरः, अनात्मीयवस्त्वादित्सा स्पृहा, पुनर्भवप्रतिसन्धानहेतुभूतेच्छा तृष्णा, निषिद्धद्रव्यग्रहणेच्छा लोभ इत्यभिलाषप्रकारभेदादागपक्ष एवायम् । द्वेषपक्षोऽपि पञ्चविधः क्रोधेासूयाद्रोहोऽमर्ष इति । अक्षि-वादिविकारहेतुः प्रज्वलनात्मकः क्रोधः, साधारणेऽपि वस्तुनि परस्य दर्शनाद्य- 15 सहनमीर्ष्या, परगुणेष्वक्षमासूया, परापकारो द्रोहः, अदर्शितमुखादिविकारः परं प्रति मन्युरमर्ष इत्यसहनप्रकारभेदादेव द्वेषपक्षः । मोहपक्षस्तु चतुर्विधो मिथ्याज्ञानं विचिकित्सा मानः प्रमाद इति । अतस्मिस्तदिति ज्ञानं मिथ्याज्ञानम्, किंस्विदिति विमर्शो विचिकित्सा, असद्गुणाध्यारोपेण स्वोत्कर्षबुद्धिर्मानः, कियदेतदित्यवज्ञया कर्तव्याकरणं 20 प्रमादः, स एव मद इत्याख्यायते, सोऽयं तत्त्वापरिज्ञानप्रकारभेदान्मोहपक्षः । एवं त्रय एवैते दोषाः, शोकहर्षों तु सुखदुःखे उच्यते न दोषान्तरम् । तेषान्तु मोहः पापतमः इतरयोस्तु तदधीनात्मलाभत्वात् । मूढस्य हि रागद्वेषौ भवतो परसन्तानवतिनामिति । स्वात्मनि रागादिनिबन्धनां प्रवृत्तिमनुभूतवान्, अतः परत्रापि प्रवृत्ति दृष्ट्वा दोषसम्बन्धमनुमिमीत इति । 25

Loading...

Page Navigation
1 ... 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384