________________
आह्निकम् ] प्रमेयप्रकरणम्
३०३ प्रवर्तयन्तीति प्रवर्तनालक्षणा इत्युक्ताः । परसन्तानवर्तिनां दोषाणामप्रत्यक्षत्वात् तत्प्रतीतये प्रवर्तनालक्षणत्वकथनमिति त्वपव्याख्यानमल्पप्रयोजनत्वादिति । दोषविभागः
तेषां दोषाणां त्रयो राशयो भवन्ति रागो द्वेषो मोह इति । तत्रानुकूलेष्वर्थेष्वभिलाषलक्षणो रागः, प्रतिकूलेष्वसहलक्षणो द्वेषः, वस्तुपरमार्थापरिच्छेद 5 लक्षणो मिथ्यावसायो मोहः । दोषविभागे न्यूनतापरिहारः
नन चेासूयालोभमानमदमत्सरादिदोषान्तरसम्भवात् कथं त्रय एव दोषाः ? न, ईर्ष्यादीनां यथानिर्दिष्टेष्वेवान्तर्भावात् । कामो मत्सरः स्पृहा तृष्णा लोभ इति पञ्चप्रकारो रागपक्षः । स्त्रीसम्भोगेच्छा कामः, यदन्यस्मै निवेद्य- 10 मानमपि वस्तु धनवन्न क्षीयते तदपरित्यागेच्छा मत्सरः, अनात्मीयवस्त्वादित्सा स्पृहा, पुनर्भवप्रतिसन्धानहेतुभूतेच्छा तृष्णा, निषिद्धद्रव्यग्रहणेच्छा लोभ इत्यभिलाषप्रकारभेदादागपक्ष एवायम् ।
द्वेषपक्षोऽपि पञ्चविधः क्रोधेासूयाद्रोहोऽमर्ष इति । अक्षि-वादिविकारहेतुः प्रज्वलनात्मकः क्रोधः, साधारणेऽपि वस्तुनि परस्य दर्शनाद्य- 15 सहनमीर्ष्या, परगुणेष्वक्षमासूया, परापकारो द्रोहः, अदर्शितमुखादिविकारः परं प्रति मन्युरमर्ष इत्यसहनप्रकारभेदादेव द्वेषपक्षः ।
मोहपक्षस्तु चतुर्विधो मिथ्याज्ञानं विचिकित्सा मानः प्रमाद इति । अतस्मिस्तदिति ज्ञानं मिथ्याज्ञानम्, किंस्विदिति विमर्शो विचिकित्सा, असद्गुणाध्यारोपेण स्वोत्कर्षबुद्धिर्मानः, कियदेतदित्यवज्ञया कर्तव्याकरणं 20 प्रमादः, स एव मद इत्याख्यायते, सोऽयं तत्त्वापरिज्ञानप्रकारभेदान्मोहपक्षः । एवं त्रय एवैते दोषाः, शोकहर्षों तु सुखदुःखे उच्यते न दोषान्तरम् । तेषान्तु मोहः पापतमः इतरयोस्तु तदधीनात्मलाभत्वात् । मूढस्य हि रागद्वेषौ भवतो
परसन्तानवतिनामिति । स्वात्मनि रागादिनिबन्धनां प्रवृत्तिमनुभूतवान्, अतः परत्रापि प्रवृत्ति दृष्ट्वा दोषसम्बन्धमनुमिमीत इति ।
25