Book Title: Nyayamanjari Part 02
Author(s): Jayant Bhatt, Chakradhar, Gaurinath Shastri
Publisher: Sampurnand Sanskrit Vishva Vidyalay
________________
३०२ न्यायमञ्ज
[ अष्टमम् प्रवृत्त रेव संसारकारणता
विधिनिषेधकारण एव हि सदसत्कर्मावगमः, तत्र विहितानुष्ठानं स्वर्गाय निषिद्धाचरणं नरकायेत्येवं सुखदुःखोपभोगस्थानशरीरेन्द्रियाद्यनभिसम्बन्धनिबन्धनमेषा प्रवृत्तिर्भवन्ती संसारस्य परमं कारणं भवति । यो ह्ययं देवमनुष्यतिर्यग्भूमिषु शरीरसर्गः, यश्च प्रतिविषयं बुद्धिसर्गः, यश्चात्मना सह मनसः संसर्गः स सर्वः प्रवृत्तेरेव परिणामविभवः। प्रवृत्तेश्च सर्वस्याः क्रियात्वात् क्षणिकत्वेऽपि तदुपहितो धर्माधर्मशब्दवाच्य आत्मसंस्कारः कर्मफलोपभोगपर्यन्तस्थितिरस्त्येव, न च फलमदत्त्वा धर्माधर्मों क्षीयते । अन्त्य
सुखदुःखसंविद्विरोधिनौ हि धर्माधर्मावुदाहरन्ति, न च जगति तथाविधं 10 किमपि कार्यमस्ति वस्तु यन्न धर्माधर्माभ्यामाक्षिप्तसम्भवमिति तदुच्छेदे मुमुक्षुणा यत्न आस्थेयः ।
इति वितनुतः पुण्यापुण्यप्रवृत्तिसमुद्भवौ निगमवदिमौ धर्माधर्मों रुचं भवबन्धने । यदि निरवधेर्दु:खस्यान्तं चिकीर्षसि सर्वथा परिहर मनोवाक्कायानां प्रवृत्तिमनर्गलाम् ।।
दोषपरीक्षा
प्रवर्तनालक्षणा दोषाः॥ प्रवर्तना प्रवृत्तिः, सा लक्षणमेषामिति प्रवर्तनलक्षणा दोषाः । दोषप्रयुक्तो हि पुरुषः पुण्ये कर्मणि पापे वा प्रवर्तते । . नन च प्रत्यात्मवेदनीयदोषाणां स्वरूपमपरोक्षमेतत, किमेतेषां लक्षणतो रूपं निरूप्यते ? सत्यम्, प्रत्यात्मवेदनीयत्वेऽपि यदेषां प्रवर्तनालक्षणत्वमुपदिश्यते तदनेन रूपेण संसारकारणत्वज्ञापनार्थम्, धर्माधर्मविहितो हि शरीरादि दुःखाधिष्ठानसम्बन्धः, तद्बीजस्य च कर्मणः कारणं दोषाः कर्मणि पुमांसं
20
अन्त्यसुखेति । यतः परं फलमन्यत् ताभ्यां देयं नास्ति तदन्त्यम् ।
Page Navigation
1 ... 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384